अष्टाध्यायी · अध्याय 6.3
अलुग् उत्तरपदे
पञ्चम्याः स्तोकादिभ्यः
ओजः-सहो ऽम्भस्-तमसस् तृतीययाः
मनसः सञ्ज्ञायाम्
आज्ञायिनि च
आत्मनश् च पूरणे
वैयाकरणाख्यायां चतुर्थ्याः
परस्य च
हल्-अदन्तात् सप्तम्याः सञ्ज्ञायाम्
कारनाम्नि च प्राचां हल्-आदौ
मध्याद् गुरौ
अमूर्ध-मस्तकात् स्वाङ्गाद् अकामे
भन्धे च विभाषा
तत्पुरुषे कृति बहुलम्
प्रावृट्-शरत्-काल-दिवां जे
विभाषा
घ-काल-तनेसु कालनाम्नः
शय-वास-वासिष्व् अकलात्
न-इन्-सिद्ध-बध्नातिषु च
स्थे च भाषायाम्
षष्ठ्या आक्रोशे
पुत्रे ऽन्यतरस्याम्
ऋतो विद्यायोनिसम्बन्धेभ्यः
विभाषा स्वसृ-पत्योः
अनङ् ऋतो द्वन्द्वे
देवताद्वन्द्वे च
ईदग्नेः सोमवरुणयोः
इद् वृद्धौ
देवो द्यावा
दिवसश् च पृथिव्याम्
उषासा-उषसः
मातर-पितराव् उदीचम्
पितरा-मातरा च च्छन्दसि
स्त्रियाः पुंवद्-भाषीतपुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणी-प्रियादिषु
तसिल्-आदिष्व् आ कृत्वसुचः
क्यङ्-मानिनोश् च
न कोपधायाः
सञ्ज्ञा-पूरण्योश् च
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे
स्वाङ्गाच् च+इतो ऽमानिनि
जातेश् च
पुंवत् कर्मधारय-जातीय-देशीयेषु
घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः
नद्याः शेषस्य अन्यतरस्याम्
उग्-इतश् च
आन्महतः समानाधिकरनजातीययोः
द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्य्-अशीत्योः
त्रेस् त्रयः
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्
हृदयस्य हृल् लेख-यद्-अण्-लासेषु
वा शोक-ष्यञ्-रोगेषु
पादस्य पद-आज्य्-आति-ग-उपहतेसु
पद् यत्य् अतदर्थे
हिम-काषि-हतिसु च
ऋचः शे
वा घोषमिश्रशब्देषु
उदकस्य+उदः सञ्ज्ञायाम्
पेषम्-वास-वाहन-धिषु च
एकहल्-आदौ पूरयितव्ये ऽन्यतरस्याम्
मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु च
इको ह्रस्वो ऽङ्यो गालवस्य
एक तद्धिते च
ङ्यापोः सञ्ज्ञाछन्दसोर् बहुलम्
त्वे च
इष्टका-इषीका-मालानां चिततूलभारिषु
खित्य् अनव्ययस्य
अरुर्-द्विषद्-अजन्तस्य मुम्
इच एकाचो ऽम्प्रत्ययवच् च
वाचंयम-पुरन्दरौ च
कारे सत्य-अगदस्य
श्येन-तिलस्य पाते ञे
रात्रेः कृति विभाषा
नलोपो नञः
तस्मान् नुड् अचि
नभ्राण्-नपान्-नवेदा-नासत्या-नमुचि-नकुल-नख-नपुंसक-नक्षत्र-नक्र-नाकेषु प्रकृत्या
एकादिश् च+एकस्य च आदुक्
नगो ऽप्राणिष्व् अन्यतरस्याम्
सहस्य सः सञ्ज्ञायाम्
ग्रन्थान्त-अधिके च
द्वितीये च अनुपाख्ये
अव्ययीभावे चाकाले
वा+उपसर्जनस्य
प्रकृत्या आशिष्य् अगो-वत्स-हलेषु
समानस्य छन्दस्य् अपूर्ध-प्रभृत्य्-उदर्केषु
ज्योतिर्-जनपद-रात्रि-नाभि-नाम-गोत्र-रूप-स्थान-वर्ण-वर्यो-वचन-बन्धुषु
चरणे ब्रह्मचारिणि
तीर्थे ये
विभाषा+उदरे
दृग्-दृश-वतुषु
इदं किमोर् ईश्की
आ सर्वनाम्नः
विष्वग्-देवयोश् च टेर् अद्र्य् अञ्चतौ वप्रत्यये
समः समि
तिरसस् तिर्य् अलोपे
सहस्य सध्रिः
सध माद-स्थयोश् छन्दसि
द्व्य्-अन्तर्-उपसर्गेभ्यो ऽप ईत्
ऊद् अनोर् देशे
अषष्थ्य्-अतृतीयास्थस्य अनयस्य दुग् आशीर्-आशा-आस्था-आस्थित-उत्सुक-ऊति-कारक-राग-च्छेषु
अर्थे विभाषा
कोः कत् तत्पुरुषे ऽचि
रथ-वदयोश् च
दृणे च जातौ
का पथ्य्-अक्षयोः
ईषदर्थे च
विभाषा पुरुषे
कवञ्चोष्णे
पथि च च्छन्दसि
पृषोदर-आदीनि यथोपदिष्टम्
सङ्ख्या-वि-साय-पूर्वस्य अह्नस्य अहन्न् अन्यतरस्यां ङौ
ढ्रलोपे पूर्वस्य दीर्घो ऽणः
सहि-वहोर् ओद् अवर्णस्य
साढ्यै साढ्वा साढ+इति निगमे
संहितायाम्
कर्णे लक्षणस्य अविष्ट-अष्ट-पञ्च-मणि-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य
नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु क्वौ
वन-गिर्योः सज्ञायां कोटर-किंशुलुकादीनाम्
वले
मतौ बह्वचो ऽनजिरादीनाम्
शरादीनाम् च
इको वहे ऽपीलोः
उपसर्गस्य घञ्यमनुष्ये बहुलम्
इकः काशे
दस् ति
अष्टनः सञ्ज्ञायाम्
छन्दसि च
चितेः कपि
विश्वस्य वसु-राटोः
नरे सञ्ज्ञायाम्
मित्रे चर्षौ
मन्त्रे सोम-अश्व-इन्द्रिय-विश्वदेव्यस्य मतौ
ओषधेश् च विभक्ताव् अप्रथमायाम्
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
इकः सुञि
द्व्यचो ऽतस्तिङः
निपातस्य च
अन्येषाम् अपि दृश्यते
चौ
सम्प्रसारणस्य
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0