भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 7.1

7.1.1

यु-वोर् अन-अकौ

7.1.2

आयन्-एय्-ईन्-ईय्-इयः फ-ढ-ख-छ-घां प्रत्ययाअदीनाम्

7.1.3

झो ऽन्तः

7.1.4

अद् अभ्यस्तात्

7.1.5

आत्मनेपदेष्व् अनतः

7.1.6

शीङो रुट्

7.1.7

वेत्तेर् विभाषा

7.1.8

बहुलं छन्दसि

7.1.9

अतो भिस ऐस्

7.1.10

बहुलं छन्दसि

7.1.11

न+इदम्-अदसोर् अकोः

7.1.12

टा-ङसि-ङसाम् इन-आत्-स्याः

7.1.13

ङेर् यः

7.1.14

सर्वनाम्नः स्मै

7.1.15

ङसि-ङ्योः समात्-स्मिनौ

7.1.16

पूर्व-आदिभ्यो नवभ्यो वा

7.1.17

जसः शी

7.1.18

औङ आपः

7.1.19

नपुंसकाच् च

7.1.20

जश्-शसोः शिः

7.1.21

अष्टाभ्य औश्

7.1.22

षड्भ्यो लुक्

7.1.23

स्व्-अमोर् नपुंसकात्

7.1.24

अतो ऽम्

7.1.25

अद्ड् डतर-आदिभ्यः पञ्चभ्यः

7.1.26

न+इतराच् छन्दसि

7.1.27

युष्मद्-अस्मद्भ्यां ङसो ऽश्

7.1.28

ङे प्रथमयोर् अम्

7.1.29

शसो न

7.1.30

भ्यसो भ्यम्

7.1.31

पञ्चम्या अत्

7.1.32

एकवचनस्य च

7.1.33

साम आकम्

7.1.34

आत औ णलः

7.1.35

तु-ह्योस् तातङ् आशिष्य् अन्यतरस्याम्

7.1.36

विदेः शतुर् वसुः

7.1.37

समासे ऽनञ्-पूर्वे क्त्वो ल्यप्

7.1.38

क्त्वा अपि छन्दसि

7.1.39

सुपां सु-लुक्-पूर्वसवर्न-आ-आच्-छे-या-डा-ड्या-याज्-आलः

7.1.40

अमो मश्

7.1.41

लोपस् त आत्मनेपदेषु

7.1.42

ध्वमो ध्वात्

7.1.43

यजध्वैनम् इति च

7.1.44

तस्य तात्

7.1.45

तप्तनप्तनथनाश् च

7.1.46

इद्-अन्तो मसि

7.1.47

क्त्वो यक्

7.1.48

इष्ट्वीनम् इति च

7.1.49

स्नात्व्यादयश् च

7.1.50

आज् जसेर् असुक्

7.1.51

अश्व-क्षीर-वृष-लवणानाम् आत्मप्रीतौ क्यचि

7.1.52

आमि सर्वनाम्नः सुट्

7.1.53

त्रेस् त्रयः

7.1.54

ह्रस्वनद्यापो नुट्

7.1.55

षट्-चतुर्भ्यश् च

7.1.56

श्री-ग्रामण्योश् छन्दसि

7.1.57

गोः पादान्ते

7.1.58

इदतो नुम् धातोः

7.1.59

शे मुचादीनाम्

7.1.60

मस्जि-नशोर् झलि

7.1.61

रधि-जभोर् अचि

7.1.62

नेट्यलिटि रधेः

7.1.63

रभेर् अशब्-लिटोः

7.1.64

लभेश् च

7.1.65

आङो यि

7.1.66

उपात् प्रशंसायाम्

7.1.67

उपसर्गात् खल्-घञोः

7.1.68

न सु-दुर्भ्यां केवलाभ्याम्

7.1.69

विभाषा चिण्-णमुलोः

7.1.70

उगिदचां सर्वनामस्थाने ऽधातोः

7.1.71

युजेर् असमासे

7.1.72

नपुंसकस्य झल्-अचः

7.1.73

इको ऽचि विभक्तौ

7.1.74

तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य

7.1.75

अस्थि-दधि-सक्थ्य्-अक्ष्णाम् अनङ् उदात्तः

7.1.76

छन्दस्य् अपि दृश्यते

7.1.77

ई च द्विवचने

7.1.78

न अभ्यस्ताच् छतुः

7.1.79

वा नपुंसकस्य

7.1.80

आच् छी-नद्योर् नुम्

7.1.81

शप्-श्यनोर् नित्यम्

7.1.82

साव् अनडुह

7.1.83

दृक्-स्ववस्-स्वतवसां छन्दसि

7.1.84

दिव औत्

7.1.85

पथि-मथ्य्-ऋभुक्षाम् आत्

7.1.86

इतो ऽत् सर्वनामस्थाने

7.1.87

थो न्थः

7.1.88

भस्य टेर् लोपः

7.1.89

पुंसो ऽसुङ्

7.1.90

गोतो णित्

7.1.91

णल् उत्तमो वा

7.1.92

सख्युर् असम्बुद्धौ

7.1.93

अनङ् सौ

7.1.94

ऋद्-उशनस्-पुरु-दंसो ऽनेहसां च

7.1.95

तृज्-वत् क्रोष्टुः

7.1.96

स्त्रियां च

7.1.97

विभाषा तृतीयादिष्व् अचि

7.1.98

चतुर्-अनडुहोर् आमुदात्तः

7.1.99

अम् सम्बुद्धौ

7.1.100

ॠत इद्-धतोः

7.1.101

उपधायाश् च

7.1.102

उद् ओष्ठ्यपूर्वस्य

7.1.103

बहुलं छन्दसि

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc