अष्टाध्यायी · अध्याय 6.2
बहुव्रीहौ प्रकृत्या पूर्वपदम्
तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान-अव्यय-द्वितीया-कृत्याः
वर्णो वर्नेष्व् अनेते
गाध-लवनयोः प्रमाणे
दायाद्यं दायादे
प्रतिबन्धि चिर-कृच्छ्रयोः
पदे ऽपदेशे
निवाते वातत्राणे
शारदे ऽनार्तवे
अध्वर्यु-कषाययोर् जातौ
स-दृश-प्रतिरूपयोः सादृश्ये
द्विगौ प्रमाणे
गन्तव्य-पण्य वाणिजे
मात्रोपज्ञोपक्रमच्छाये नपुंसके
सुख-प्रिययोर् हिते
प्रीतौ च
स्वं स्वामिनि
पत्याव् ऐश्वर्ये
न भू-वाक्-चिद्-दिधिषु
वा भूवनम्
आशङ्क-आबाध-नेदीयस्सु सम्भावने
पूर्वे भूतपूर्वे
सविध-सनीड-समर्याद-सवेश-सदेशेषु सामीप्ये
विस्पष्ट-आदीनि गुणवचनेषु
श्र-ज्य-अवम-कन्-पाप-वत्सु भावे कर्मधारये
कुमारश् च
आदिः प्रत्येनसि
पूगेष्व् अन्यतरस्याम्
इगन्त-काल-कपाल-भगाल-शरावेषु द्विगौ
बह्व्-अन्यतरस्याम्
दिष्टि-वितस्त्योश् च
सप्तमी सिद्ध-शुष्क-पक्व-बन्धेष्व् अकालात्
परि-प्रत्य्-उप-अपा वर्ज्यमान-अहोरात्र-अवयवेषु
राजन्य-बहुवचन-द्वन्द्वे ऽन्धक-वृष्णिषु
सङ्ख्या
आचार्य-उपसर्जनश् च अन्तेवासी
कार्त-कौजप-आदयश् च
महान् व्रीह्य्-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु
क्षुल्लकश् च वैश्वदेवे
उष्ट्रः सादि-वाम्योः
गौः साद-सादि-सारथिषु
कुरुगार्हपत-रिक्तगुर्व्-असूतजरत्य्-अश्लीलदृढरूपा-पारेवडवा-तैतिलकद्रू-पण्यकम्बलो दासीभाराणां च
चतुर्थी तदर्थे
अर्थे
क्ते च
कर्मधारये ऽनिष्ठा
अहीने द्वितीया
तृतीया कर्मणि
गतिरनन्तरः
त-आदौ च निति कृत्य्-अतौ
तवै च अन्तश् च युगपत्
अनिगन्तो ऽञ्चतौ वप्रत्यये
न्य्-अधी च
ईषद् अन्यतरस्याम्
हिरण्यपरिमाणं धने
प्रथमो ऽचिर-उपसम्पत्तौ
कतर-कतमौ कर्मधारये
आर्यो ब्राह्मण-कुमारयोः
राजा च
षष्ठी प्रत्येनसि
क्ते नित्य-अर्थे
ग्रामः शिल्पिनि
राजा च प्रशंसायाम्
आदिर् उदात्तः
सप्तमीहारिणौ धर्म्ये ऽहरणे
युक्ते च
विभाषा अध्यक्षे
पापं च शिल्पिनि
गोत्र-अन्तेवासि-मानव-ब्राह्मणेसु क्षेपे
अङ्गानि मैरेये
भक्त-आख्यास् तदर्थेषु
गो-बिडाल-सिंह-सैन्धवेषु उपमाने
अके जीविका-अर्थे
प्राचां क्रीडायां
अणि नियुक्ते
शिल्पिनि च अकृञः
सञ्ज्ञायां च
गोतन्तियवं पाले
णिनि
उपमनं शब्द-अर्थ-प्रकृताव् एव
युक्तारोह्य्-आदयश् च
दीर्घ-काश-तुष-भ्राष्ट्र-वटं जे
अन्त्यात् पूर्वं बह्व्-अचः
ग्रामे ऽनिवसन्तः
घोष-आदिषु च
छात्र्य्-आदयः शालायाम्
प्रस्थे ऽवृद्धम् अकर्क्य्-आदीनाम्
मालादीनां च
अमहन्-नवं नगरे ऽनुदीचाम्
अर्मे च अवर्णम् द्व्यच् त्र्यच्
न भूत-अधिक-सञ्जीव-मद्र-अश्म-कज्जलम्
अन्तः
व्क्ष्यति - सर्वं गुणकार्त्स्न्ये
सञ्ज्ञायां गिरिनिकाययोः
कुमार्याम् वयसि
उदके ऽकेवले
द्विगौ क्रतौ
सभायां नपुंसके
पुरे प्राचाम्
अरिष्ट-गौड-पूर्वे च
न हास्तिन-फलक-मार्देयाः
कुसूल-कूप-कुम्भ-शालं बिले
दिक्-शब्दा ग्राम-जनपद-आख्यान-चानराटेषु
आचार्य-उपसर्जनश् च अन्तेवासिनि
उत्तरपदवृद्धौ सर्वं च
बहुव्रीहौ विश्वं सञ्ज्ञायां
उदर-अश्व-इषुषु
क्षेपे
नदी बन्धुनि
निष्ठा-उपसर्गपूर्वम् अन्यतरस्याम्
उत्तरपद-आदिः
कर्णो वर्णलक्षणात्
सञ्ज्ञा-औपम्ययोश् च
कण्ठ-पृष्थ-ग्रीवा-जङ्घं च
शृङ्गम् अवस्थायां च
नञो जर-मर-मित्र-मृताः
सोर् मन्-असी अलोम-उषसी
क्रत्व्-आदयश् च
आद्य्-उदात्तं द्व्यच् छन्दसि
वीर-वीर्यौ च
कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे
किंस-मन्थ-शूर्प-पाय्य-काण्डं द्विगौ
तत्पुरुषे शालायां नपुंसके
कन्था च
आदिश्चिहणादीनां
चेल-खेट-कटुक-काण्डं गर्हायाम्
चीरम् उपमानम्
पलल-सूप-शाकं मिश्रे
कूलसूदस्थलकर्षाः सञ्ज्ञायाम्
अकमधारये राज्यम्
वर्ग्य-आदयश् च
पुत्रः पुम्भ्यः
न आचार्य-राज-र्त्विक्-संयुक्त-ज्ञात्य्-आख्येभ्यः
चूर्ण-आदीन्य् अप्राणिषष्ठ्याः
षट् च काण्डादीनि
कुण्डं वनम्
प्रकृत्या भगालम्
शितेर् नित्य-अबह्व्-अज्ब्-अहुव्रीहाव् अभसत्
गति-कारक-उपपदात् कृत्
उभे वनस्पत्यादिषु युगपत्
देवताद्वन्द्वे च
न+उत्तरपदे ऽनुदात्तादाव् अपृथिवी-रुद्र-पूष-मन्थिषु
अन्तः
थ-अथ-घञ्-क्त-अज्-अब्-इत्र-काणाम्
सु-उपमानात् क्तः
सञ्ज्ञायाम् अनाचितादीनाम्
प्रवृद्धादीनां च
कारकाद् दत्त-श्रुतयोर् एव आशिषि
इत्थंभूतेन कृतम् इति च
अनो भाव-कर्म-वचनः
मन्-क्तिन्-व्याख्यान-शयन-आसन-स्थान-याजक-आदि-क्रीताः
सप्तम्याः पुण्यम्
ऊनार्थ-कलहं तृतीआयाः
मिश्रं च अनुपसर्गम् असन्धौ
नञो गुणप्रतिषेधे सम्पाद्य्-अर्ह-हित-अलमर्थास् तद्धिताः
य-यतोश् च अतदर्थे
अच्-काव् अशक्तौ
आक्रोशे च
सञ्ज्ञायाम्
कृत्य-उक-इष्णुच्-चार्व्-आदयश् च
विभाषा तृन्न्-अन्न-तीक्ष्ण-शुचिषु
बहुव्रीहाव् इदम्-एतत्-तद्भ्यः प्रथम-पूरनयोः क्रियागणने
सङ्ख्यायाः स्तनः
विभाषा
सञ्ज्ञायां मित्र-अजिनयोः
व्यवायिनो ऽन्तरम्
मुखं स्वाङ्गं
न अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः
निष्ठा-उपमानाद् अन्यतरस्याम्
जाति-काल-सुख-आदिभ्यो ऽनाच्छादनात् क्तो ऽकृत-मित-प्रतिपन्नाः
वा जाते
नञ्-सुभ्याम्
कपि पूर्वम्
ह्रस्वान्ते ऽन्त्यात् पूर्वम्
बहोर् नञ्वद् उत्तरपदभूम्नि
न गुणादयो ऽवयवाः
उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु
वनं समासे
अन्तः
अन्तश् च
न नि-वि-भ्याम्
परेर् अभितोभावि मण्डलम्
प्राद्-अस्वङ्गं सञ्ज्ञायाम्
निरुदकादीनि च
अभेर् मुखम्
अपाच् च
स्फिग-पूत-वीणा-अञ्जो ऽध्व-कुक्षि-सीरनाम-नाम च
अधेर् उपरिस्थम्
अनोर् अप्रधानकनीयसी
पुरुषश् च अन्वादिष्टः
अतेर् अकृत्-पदे
नेर् अनिधाने
प्रतेर् अंश्व्-आदयस् तत्पुरुषे
उपाद् द्व्यज्-अजिनम् अगौरादयः
सोर् अवक्षेपणे
विभाषा+उत्पुच्छे
द्वि-त्रिभ्यां पाद्-दन्-मूर्धसु बहुव्रीहौ
सक्थं च अक्रान्तात्
परादिश् छन्दसि बहुलम्
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0