अष्टाध्यायी · अध्याय 6.1
एक-अचो द्वे प्रथमस्य
अजादेर् द्वितीयस्य
न न्द्राः संयोगादयः
पूर्वो ऽभ्यासः
उभे अभ्यस्तम्
जक्षित्य्-आदयः षट्
तुजादीनां दीर्घो ऽभ्यासस्य
लिटि धातोर् अनभ्यासस्य
सन्-यङोः
श्लौ
चङि
दाश्वान् साह्वान् मीड्वांश् च
ष्यङः सम्प्रसारणं पुत्र-पत्योस् तत्पुरुषे
बन्धुनि बहुव्रीहौ
वचि-स्वपि-यजादीनां किति
ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां ङिति च
लिट्य् अभ्यासस्य+उभयेषाम्
स्वापेश् चङि
स्वपि-स्यमि-व्येञां यङि
न वशः
चायः की
स्फायः स्फी निष्ठायाम्
स्त्यः प्रपूर्वस्य
द्रवमूर्ति-स्पर्शयोः श्यः
प्रतेश् च
विभाषा ऽभ्य्-अव-पूर्वस्य
शृतं पाके
प्यायः पी
लिड्-यङोश् च
विभाषा श्वेः
णौ च संश्-चङोः
ह्वः संप्रसारणम्
अभ्यस्तस्य च
बहुलं छन्दसि
चायः की
अपस्पृधेथाम्-आनृचुर्-आनृहुश्-चिच्युषेतित्याज-श्राताः श्रितम्-आशीराशीर्ताः
न सम्प्रसारणे सम्प्रसारणम्
लिटि व्यो यः
वश् च अस्य अन्यतरस्यां किति
वेञः
ल्यपि च
ज्यश् च
व्यश् च
विभाषा परेः
आद् एच उपदेशे ऽशिति
न व्यो लिटि
स्फुरति-स्फुलत्योर् घञि
क्री-इङ्-जीनां णौ
सिध्यतेर् अपारलौकिके
मीनाति-मिनोति-दीङां ल्यपि च
विभाषा लीयतेः
खिदेश् छन्दसि
अपगुरो णमुलि
चि-स्फुरोर् णौ
प्रजने वीयतेः
बिभेतेर् हेतुभये
नित्यं स्मयतेः
सृजि-दृशोर् ज्ञल्य् अम् अकिति
अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम्
शीर्षंश् छन्दसि
ये च तद्धिते
अचि शीर्षः
पद्-दन्-नो-मास्-हृन्-निश्-असन्-यूषन्-दोषन्-यकञ्-छकन्न्-उदन्न्-आसञ् छस्प्रभृतिषु
धात्वादेः षः सः
णो नः
लोपो व्योर् वलि
वेर् अपृक्तस्य
हल्-ङ्य्-आब्भ्यो दीर्घात् सु-ति-स्य्-अपृक्तं हल्
एङ् ह्रस्वात् सम्बुद्धेः
शेः छन्दसि बहुलम्
ह्रस्वस्य पिति कृति तुक्
संहितायाम्
छे च
आङ्-माङोश् च
दीर्घात्
पदान्ताद् वा
इको यणचि
एचो ऽय्-अव्-आय्-आवः
वान्तो यि प्रत्यये
धातोस् तन्निमित्तस्य+एव
क्षय्य-जय्यौ शक्यार्थे
क्रय्यस् तदर्थे
भ्य्यप्रवय्ये च च्छन्दसि
एकः पूर्वपरयोः
अन्तादिवच् च
षत्व-तुकोर् असिद्धः
आद्गुणः
वृद्धिर् एचि
एत्य्-एधत्य्-ऊठ्सु
आटश् च
उपसर्गाद् ऋति धातौ
वा सुप्यापिशलेः
आ-ओतो ऽम्-शसोः
एङि पररूपम्
ओम्-आङोश् च
उस्य् अपदान्तात्
अतो गुणे
अव्यक्त-अनुकरणस्य अत इतौ
न आम्रेडितस्य अनत्यस्य तु वा
नित्यम् आम्रेडिते डाचि
अकः सवर्णे दीर्घः
प्रथमयोः पूर्वसवर्णः
तस्माच् छसो नः पुंसि
नाद् इचि
दीर्घाज् जसि च
वा छन्दसि
अमि पूर्वः
सम्प्रसारणाच् च
एङः पदान्ताद् अति
ङसिङसोश् च
ऋत उत्
ख्यत्यात् परस्य
अतो रोर् अप्लुताद् अप्लुते
हशि च
प्रकृत्या ऽन्तःपादम् अव्यपरे
अव्याद्-अवद्याद्-अवक्रमुर्-अव्रत-अयम्-अवन्त्व्-अवस्युसु च
यजुष्य् उरः
आपो-जुषणो-वृष्णो-वर्षिष्ठे ऽम्बे ऽम्बाले ऽम्बिकेपूर्वे
अङ्ग इत्य् आदौ च
अनुदात्ते च कुधपरे
अवपथासि च
सर्वत्र विभाषा गोः
अवङ् स्फोटायनस्य
इन्द्रे च नित्यम्
प्लुत-प्रगृह्या अचि
आङो ऽनुनासिकश् छन्दसि
इको ऽसवर्णे शाकल्यस्य ह्रस्वश् च
ऋत्य् अकः
अप्लुतवद्-उपस्थिते
ई3 चाक्रवर्मणस्य
दिव उत्
एतत्-तदोः सुलोपो ऽकोर् अनञ्समासे हलि
स्यश् छन्दसि बहुलम्
सो ऽचि लोपे चेत् पादपूरणम्
सुट् कात् पूर्वः
अड्-अभ्यास-व्यवाये ऽपि
सम्पर्युपेभ्यः करोतौ भूषणे
समवाये च
उपात् प्रतियत्न-वैकृत-वाक्य-अध्याहारेसु
किरतौ लवने
हिंसायां प्रतेश् च
अपाच् चतुष्पाच्-छकुनिष्व् आलेखने
कुस्तुम्बुरूणि जातिः
अपरस्पराः क्रियासातत्ये
गोष्पदं सेवित-असेवित-प्रमाणेसु
आस्पदं प्रतिष्ठायाम्
आश्चर्यम् अनित्ये
वर्चस्के ऽवस्करः
अपस्करो रथाङ्गम्
विष्किरः शुकुम्निर्विकिरो वा
ह्वस्वाच् चन्द्र-उत्तरपदे मन्त्रे
प्रतिष्कशश् च कशेः
प्रस्कण्व-हरिश्चन्द्राव् ऋषी
मस्करमस्करिणौ वेणुपरिव्राजकयोः
कास्तीराजस्तुन्दे नगरे
कारस्करो वृक्षः
पारस्करप्रभृतीनि च सञ्ज्ञायाम्
अनुदात्तं पदम् एकवर्जम्
कर्ष-आत्वतो घञो ऽन्त उदात्तः
उच्छादीनां च
अनुदात्तस्य च यत्र+उदात्तलोपः
धातोः
चितः
तद्धितस्य
कितः
तिसृभ्यो जसः
चतुरः शसि
साव् एक-अचस् तृतीया-आदिर् विभक्तिः
अन्त-उदात्ताद् उत्तरपदादन्यतरस्याम् अनित्यसमासे
अञ्चेश् छन्दस्य् असर्वनामस्थानम्
ऊड्-इदं-पदाद्य्-अप्-पुम्-रै-द्युभ्यः
अष्टनो दीर्घात्
शतुर् अनुमो नद्य्-अज्-आदी
उदात्तयणो हल्पूर्वात्
न+उङ्-धात्वोः
ह्रस्व-नुड्भ्यां मतुप्
नाम् अन्यतरस्याम्
ङ्याश् छन्दसि बहुलम्
षट्त्रिचतुर्भ्यो हलादिः
ज्ञल्य् उपोत्तमम्
विभाषा भाषायाम्
न गो-श्वन्-साववर्ण-राड्-अङ्-क्रुङ्-कृद्भ्यः
दिवो झल्
नृ च अन्यतरस्याम्
तित् स्वरितम्
तास्य्-अनुदातेन्-ङिद्-अद्-उपदेशाल् ल-सार्वधातुकम् अनुदात्तम् अह्न्विङोः
आदिः सिचो ऽन्यतरस्याम्
स्वपादि-हिंसाम् अच्य् अनिटि
अभ्यस्तानाम् आदिः
अनुदाते च
सर्वस्य सुपि
भी-ह्री-भृ-हु-मद-जन-धन-दरिद्रा-जागरां प्रत्ययात् पूर्वं पिति
लिति
आदिर् णमुल्य् अन्यतरस्याम्
अचः कर्तृयकि
थलि च सेटीडन्तो वा
ञ्नित्यादिर् नित्यम्
आमन्त्रितस्य च
पथि-मथोः सर्वनामस्थाने
अन्तश् च तवै युगपत्
क्षयो निवासे
जयः करणम्
वृष-आदीनां च
सञ्ज्ञायाम् उपमानम्
निष्ठा च द्व्यज् अनात्
शुष्क-धृष्तौ
आशितः कर्ता
रिक्ते विभाषा
जुष्ट-अर्पिते च च्छन्दसि
नित्यं मन्त्रे
युष्मद्-अस्मदोर् ङसि
ङयि च
यतो ऽनावः
ईड-वन्द-वृ-शंस-दुहां ण्यतः
विभाषा वेण्व्-इन्धानयोः
त्याग-राग-हास-कुह-श्वठ-क्रथानाम्
उपोत्तमं रिति
चङ्य् अन्यतरस्याम्
मतोः पूर्वमात् सञ्ज्ञायां स्त्रियाम्
अन्तो ऽवत्याः
ईवत्याः
चौ
समासस्य
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0