अष्टाध्यायी · अध्याय 5.4
पादशतस्य सङ्ख्यादेर् वीप्सायां वुन् लोपश् च
दण्ड-व्यवसर्गयोश् च
स्थूलादिभ्यः प्रकारवचने कन्
अनत्यन्तगतौ क्तात्
न सामिवचने
बृहत्या आच्छादने
अषडक्ष-आशितङ्ग्व्-अलङ्कर्म-अलम्पुरुष-अध्युत्तरपदात् खः
विभाषा-अञ्चेर् अदिक्ष्त्रियाम्
जात्यन्ताच् छ बन्धुनि
स्थानान्ताद् विभाषा सस्थानेन+इति चेत्
किम्-एत्-तिङ्-अव्यय-घाद्-आंव्-अद्रव्यप्रकर्षे
अमु च च्छन्दसि
अनुगादिनष् ठक्
णचः स्त्रियाम् अञ्
अण् इनुणः
विसारिणो मत्स्ये
सङ्क्यायाः क्रिया-अभ्यावृत्तिगणने कृत्वसुच्
द्वि-त्रि-चतुर्भ्यः सुच्
एकस्य सकृच् च
विभाषा बहोर् धा ऽविप्रक्र्ष्टकाले
तत् प्रकृतवचने मयट्
समूहवच् च बहुषु
अनन्त-आवसथ-इतिह-भेषजाञ् ञ्यः
देवतान्तात् तादर्थ्ये यत्
पाद-अर्घाभ्यां च
अतिथेर् ञ्यः
देवात् तल्
अवेः कः
यावादिभ्यः कन्
लोहितान् मणौ
वर्णे च अनित्ये
रक्ते
कालाच् च
विनयादिभ्यष् ठक्
वाचो व्याहृत-अर्थायाम्
तद्युक्तात् कर्मणो ऽण्
ओषधेर् अजातौ
प्रज्ञादिभ्यश् च
मृदस् तिकन्
सस्नौ प्रशंसायां
वृक-ज्येष्ठाभ्यां तिल्-तातिलौ च छन्दसि
बह्व्-अल्प-अर्थाच् छस्कारकाद् अन्यतरस्याम्
सङ्ख्या-एकवचनाच् च वीप्सायाम्
प्रतियोगे पञ्चम्यास् तसिः
अपादाने च अहीय-रुहोः
अतिग्रह-अव्यथन-क्षेपेष्व् अकर्तरि तृतीयायाः
हीयमान-पापयोगाच् च
षष्ठ्या व्याश्रये
रोगाच् च अपनयने
अभूततद्भावे कृ-भ्व्-अस्तियोगे सम्पद्यकर्तरि च्विः
अरुर्-मनश्-चक्षुश्-चेतो-रहो-रजसां लोपश् च
विभाषा साति कार्त्स्न्ये
अभिविधौ सम्पदा च
तदधीनवचने
देये त्रा च
देव-मनुष्य-पुरुष-पुरु-मर्त्येभ्यो द्वितीयासप्तम्योर् बहुलम्
अव्यक्तानुकरणाद् द्व्यजवरार्धाद् अनितौ डाच्
कृञो द्वितीय-तृतीय-शम्ब-बीजात् कृषौ
सङ्ख्यायाश् च गुणान्तायाः
समयाच् च यापनायाम्
सपत्र-निष्पत्राद् अतिव्यथने
निष्कुलान् निष्कोषणे
सुख-प्रियाद् आनुलोम्ये
दुःखात् प्रातिलोम्ये
शूलात् पाके
सत्याद् अशपथे
मद्रात् परिवापणे
समासान्ताः
न पूजनात्
किमः क्षेपे
नञस् तत्पुरुषात्
पथो विभाषा
बहुव्रीहौ सङ्ख्येये डज् अबहु-गणात्
ऋक्-पूर्-अब्-धूः-पथाम् आनक्षे
अच् प्रत्य्-अन्व्-अवपूर्वात् साम-लोम्नः
अक्ष्णो ऽदर्शनात्
अचतुर-विचतुर-सुचतुर-स्त्रीपुंस-धेन्वनडुह-र्क्षाम-वाङ्मनस-अक्षिभ्रुव-दारगव-ऊर्वष्ठीव-पदष्ठीव-नक्तंदिव-रात्रिंदिव-अहर्दिव-सरजस-निःश्रेयस-पुरुषायुष-द्व्यायुष-त्र्यायुष-र्ग्यजुष-जातोक्ष-महोक्ष-वृद्धोक्ष-उपशुन-गोष्ठश्वाः
ब्रह्महस्तिभ्यां वर्चसः
अव-सम्-अन्धेभ्यस् तमसः
श्वसो वसीयः-श्रेयसः
अन्व्-अव-तप्ताद् रहसः
प्रतेर् उरसः सप्तमीस्थात्
अनुगवम् आयामे
द्विस्तावा तिर्स्तावा वेदिः
उपसर्गाद् अध्वनः
तत्पुरुषस्य अङ्गुलेः सङ्ख्या-अव्ययादेः
अहः-सर्व-एकदेश-सङ्ख्यात-पुण्याच् च रात्रेः
अह्नो ऽह्न एतेभ्यः
न सङ्ख्यादेः समाहारे
उत्तम-एकाभ्यां च
राज-अहः-सखिभ्यष् टच्
गोर् अतद्धित-लुकि
अग्र-आख्यायाम् उरसः
अनो ऽश्म-अयस्-सरसां जाति-सञ्ज्ञायोः
ग्राम-कौटाभ्यां च तक्ष्णः
अतेः शुनः
उअप्मानाद् अप्राणिषु
उत्तरमृगपूर्वाच् च सक्थ्नः
नावो द्विगोः
अर्धाच् च
खार्याः प्राचाम्
द्वि-त्रिभ्याम् अञ्जलेः
अन्-अस्-अन्तान् नपुंसकाच् छन्दसि
ब्रह्मणो जानपदाख्यायाम्
कु-महद्भ्याम् अन्यतरस्याम्
द्वन्द्वाच् चु-द-ष-ह-अन्तात् समाहारे
अव्ययीभावे शरत्-प्रभृतिभ्यः
अनश् च
नपुंसकाद् अन्यतरस्याम्
नदी पौर्णमास्य्-आग्रहायणीभ्यः
ज्ञयः
गिरेश् च
बहुव्रीहौ सक्थ्य्-अक्ष्णोः स्वाङ्गात् षच्
अङ्गुलेर् दारुणि
द्वि-त्रिभ्यां ष मूर्ध्नः
अप् पूरणी-प्रमाण्योः
अन्तर्-बहिर्भ्यां च लोम्नः
अञ् नासिकायाः सञ्ज्ञायां नसं च अस्थूलात्
उपसर्गाच् च
सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरश्र-एणीपदाजपद-प्रोष्ठपदाः
नञ्-दुः-सुभ्यो हलि-सक्थ्योर् अन्यारस्याम्
नित्यम् असिच् प्रजा-मेधयोः
बहुप्रजाश्च् छन्दसि
धर्माद् अनिच् केवलात्
जम्भा सुहरिततृणसोमेभ्यः
दक्षिणेर् मा लुब्धयोगे
इच् कर्मव्यतिहारे
द्विदण्ड्यादिभ्यश् च
प्र-संभ्यां जानुनोर् ज्ञुः
ऊर्ध्वाद् विभाषा
ऊधसो ऽनङ्
धनुषश् च
वा सञ्ज्ञायाम्
जायाया निङ्
गन्धस्य+इद् उत्-पूति-सु-सुरभिभ्यः
अल्प-आख्यायाम्
उपमानाच् च
पादस्य लोपो ऽहस्त्यादिभ्यः
कुम्भपदीषु च
सङ्ख्या-सुपूर्वस्य
वयसि दन्तस्य दतृ
छन्दसि च
स्त्रियां सञ्ज्ञायाम्
विभाषा श्याव-अरोकाभ्याम्
अग्रान्त-शुद्ध-शुभ्र-वृष-वराहेभ्यश् च
ककुदस्य अवस्थायां लोपः
त्रिककुत् पर्वते
उद्-विभ्यां काकुदस्य
पूर्णाद् विभाषा
सुहृद्-दुर्हृदौ मित्र-अमित्रयोः
उरःप्रभृतिभ्यः कप्
इनः स्त्रियाम्
नद्य्-ऋतश् च
शेषाद् विभाषा
न सञ्ज्ञायाम्
ईयसश् च
वन्दिते भ्रातुः
ऋतश् छन्दसि
नाडी-तन्त्र्योः स्वाङ्गे
निष्प्रवाणिश् च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0