अष्टाध्यायी · अध्याय 5.3
प्राग्-दिशो विभक्तिः
किं-सर्वनाम-बहुभ्यो ऽद्व्य्-आदिभ्यः
इदम् इश्
एत-इतौ र-थोः
एतदो ऽश्
सर्वस्य सो ऽन्यतरस्यां दि
पञ्चम्यास् तसिल्
तसेश् च
पर्य्-अभिभ्यां च
सप्तम्यास् त्रल्
इदमो हः
किमो ऽत्
वा ह च च्छन्दसि
इतराभ्ह्यो ऽपि दृश्यन्ते
सर्व-एक-अन्य-किं-यत्-तदः काले दा
इदमो र्हिल्
अधुना
दानीं च
तदो दा च
तयोर् दा-र्हिलौ च छन्दसि
अनद्यतने र्हिल् अन्यतरस्याम्
सद्यः परुत् परार्य्-औषमः परेद्यव्य्-अद्य-पूर्वेद्युर्-अन्येद्युर्-अन्यतरेद्युर्-इतरेद्युर्-अपरेद्युर्-अधरेद्युर्-उभयेद्युर्-उत्तरेद्युः
प्रकारवचने थाल्
इदमस् थमुः
किमश् च
था हेतौ च च्छन्दसि
दिक्-शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यो दिग्-देश-कालेष्व् अस्तातिः
दिक्षिण-उत्तराभ्याम् अतसुच्
विभाषा पर-अवराभ्याम्
अञ्चेर् लुक्
उपर्य्-उपरिष्टात्
पश्चात्
पश्च पश्चा च छन्दसि
उत्तर-अधर-दक्षिणाद् आतिः
एनव् अन्यतरस्याम् अदूरे ऽपञ्चम्याः
दक्षिणाद् आच्
आहि च दूरे
उत्तराच् च
पूर्व-अधर-अवरानाम् असि पुर्-अद्ः-अवश् च+एषाम्
अस्ताति च
विभाषा ऽवरस्य
सङ्ख्याया विधार्थे धा
अधिकरणविचाले च
एकाद् धो द्यमुञ् अन्यतरस्याम्
द्वि-त्र्योश् च धमुञ्
एधाच् च
याप्ये पाशप्
पूरणाद् भागे तीयाद् अन्
प्राग् एकादशभ्यो ऽच्छन्दसि
षष्ठ-अष्टमाभ्यां ञ च
मान-पश्व्-अङ्गयोः कन्-लुकौ च
एकाद् आकिनिच् च असहाये
भूतपूर्वे चरट्
षष्ठ्या रूप्य च
अतिशायने तमबिष्ठनौ
तिङश् च
द्विवचन-विभज्य-उपपदे तरब्-ईयसुनौ
अजादि गुणवचनाद् एव
तुश् छन्दसि
प्रशस्यस्य श्रः
ज्य च
वृद्धस्य च
अन्तिक-बाढयोर् नेद-साधौ
युव-अल्पयोः कन् अन्यतरस्याम्
विन्-मतोर् लुक्
प्रशंसायां रूपप्
ईषदसमाप्तौ कल्पब्-देश्य-देशीयरः
विभाषा सुपो बहुच् परस्तात् तु
प्रकारवचने जातीयर्
प्राग्-इवात् कः
अव्यय-सर्वनाम्नाम् अकच् प्राक् टेः
कस्य च दः
अज्ञाते
कुत्सिते
सञ्ज्ञायां कन्
अनुअम्पायाम्
नीतौ च तद्युक्तात्
बह्वचो मनुस्यनाम्नष् ठज् वा
घन्-इलचौ च
प्राचाम् उपादेर् अडज्-वुचौ च
जातिनाम्नः कन्
अजिनान्तस्य+उत्तरपदलोपश् च
ठ-अज्-आदाव् ऊर्ध्वं द्वितीयाद् अचः
शेवल-सुपरि-विशाला-वरुण-अर्यम-आदिनां तृतीयात्
अल्पे
ह्रस्वे
सञ्ज्ञायां कन्
कुटी-शमी-शुण्डाभ्यो रः
कुत्वा डुपच्
कासू-गोणीभ्यां ष्टरच्
वत्स-उक्ष-अश्व-र्षभेभ्यश् च तनुत्वे
किं-यत्-तदो निर्धारणे द्वयोर् एकस्य डतरच्
वा बहूनां जातिपरिप्रश्नो डतमच्
एकाच् च प्राचाम्
अवक्षेपणे कन्
इवे प्रतिकृतौ
सञ्ज्ञायां च
लुम्-मनुस्ये
जीविकार्थे चापण्ये
देवपथादिभ्यश् च
वस्तेर् धञ्
शिलाया ढः
शाखादिभ्यो यत्
द्रव्यं च भव्ये
कुशाग्राच् छः
समासाच् च तद्विषयात्
शर्करा-आदिभ्यो ऽण्
अङ्गुल्यादिभ्यष् ठक्
एकशालायाष् ठज् अन्यतरस्याम्
कर्क-लोहिताद् ईकक्
प्रत्न-पूर्व-विश्व-इमात् थाल् छन्दसि
पूगाञ् ञ्यो ऽग्रामणीपूर्वात्
व्रात-च्फञोर् अस्त्रियाम्
आयुध-जीविसङ्क्घाञ्ञ्यड्-वाहीकेष्व् अब्राह्मण-राजन्यात्
वृकाट् टेण्यण्
दामन्यादि-त्रिगर्तष्ठाच् छः
पर्श्वादि-यौधेयादिभ्याम् अण्-अञौ
अभिजिद्-विदभृच्-छालावच्-छिखावच्-छमीवद्-ऊर्णावच्-छरुमद्-अणो यञ्
ञ्यादयस् तद्राजाः
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0