अष्टाध्यायी · अध्याय 5.2
धान्यानां भवने क्षेत्रे खञ्
व्रीहि-शाल्योर् ढक्
यव-यवक-षष्टिकाद् यत्
विभाषा तिल-माष-उमा-भङ्गा-अणुभ्यः
सर्वचर्मणः कृतः ख-खञौ
यथामुख-सम्मुखस्य दर्शनः खः
तत् सर्व-आदेः पथ्य्-अङ्ग-कर्म-पत्र-पात्रं व्याप्नोति
आप्रपदं प्राप्नोति
अनुपद-सर्वान्न-अय-अनयं बद्धा-भक्षयति-नेयेषु
परोवर-परम्पर-पुत्रपौत्रम् अनुभवति
अवारपार-अत्यन्त-अनुकामं गामी
समांसमां विजायते
अद्यश्वीना अवष्टब्धे
आगवीनः
अनुग्व्-अलङ्गामी
अध्वनो यत्-खौ
अभ्यमित्राच् छ च
गोष्ठात् खञ् भूतपूर्वे
अश्वस्यैकाहगमः
शालीन-कौपीने अधृष्ट-अकार्ययोः
व्रातेन जीवति
साप्तपदीनं सख्यम्
हैयङ्गवीनं सञ्ज्ञायाम्
तस्य पाक-मूले पील्वदि-कर्णादिभ्यः कुणब्-जाहचौ
पक्षात् तिः
तेन वित्तश् चुञ्चुप्-चणपौ
वि-नञ्भ्यां ना-नाञौ नसह
वेः शालच्-छङ्कटचौ
सं-प्र-उदश् च कटच्
अवात् कुटारच् च
नते नासिकायाः सञ्ज्ञायां टीटञ्-नाटज्-भ्रटचः
नेर्बिडज्बिरीसचौ
इनच् पिटच् चिक चि च
उप-अधिभ्यां त्यकन्न् आसन्न-आरूढयोः
कर्मणि घटो ऽठच्
तद् अस्य सञ्जातं तारका-आदिभ्य इतच्
प्रमाणे द्वयसज्-दघ्नञ्-मात्रचः
पुरुष-हस्तिभ्याम् अण् च
यत्-तद्-एतेभ्यः परिमाणे वतुप्
किम्-इदम्-भ्यां वो घः
किमः सङ्ख्यापरिमाणे डति च
सङ्ख्याया अवयवे तयप्
द्वि-त्रिभ्यां तयस्य अयज् वा
उभाद् उदात्तो नित्यम्
तद् अस्मिन्न् अधिकम् इति दशान्ताड् डः
शदन्त-विंशतेश् च
सङ्ख्याया गुणस्य निमाने मयट्
तस्य पूरणे डट्
न अन्ताद् असङ्ख्या-आदेर् मट्
थट् च छन्दसि
षट्-कति-कतिपय-चतुरां थुक्
बहु-पूग-गण-सङ्घस्य तिथुक्
वतोर् इथुक्
द्वेस् तीयः
त्रेः सम्प्रसारणं च
विंशत्य्-आदिभ्यस् तमड् अन्यतरस्याम्
नित्यं शतादि-मास-अर्धमास-संवत्सराच् च
षष्ट्यादेश् च असङ्ख्यादेः
मतौ छः सूक्त-साम्नोः
अध्याय-अनुवाकयोर् लुक्
विमुक्त-आदिभ्यो ऽण्
गोषदादिभ्यो वुन्
तत्र कुशलः पथः
आकर्शादिभ्यः कन्
धन-हिरण्यात् कामे
स्वाङ्गेभ्यः प्रसिते
उदराट् ठगाद्यूने
सस्येन परिजातः
अंशं हारि
तन्त्राद्-अचिर-अपहृते
ब्राह्मणक-उष्णिके सञ्ज्ञायाम्
शीतोष्णाभ्यां कारिणि
अधिकम्
अनुक-अभिक-अभीकः कमिता
पार्श्वेन अन्विच्छति
अयःशूल-दण्ड-अजिनाभ्यां ठक्-ठञौ
तावतिथं ग्रहणम् इति लुग् वा
स एषां ग्रामणीः
शृङ्खलम् अस्य बन्धनं करभे
उत्क उनमनाः
काल-प्रयोजनाद् रोगे
तद् अस्मिन्न् अन्नं प्राये सञ्ज्ञायाम्
कुल्माषाद् अञ्
श्रोत्रियं श्छन्दो ऽधीते
श्राद्धम् अनेनन् भुक्तम् इनि-ठनौ
पूर्वादिनिः
सपूर्वाच् च
इष्ट-आदिभ्यश् च
छन्दसि परिपन्थि-परिपरिणौ पर्यवस्थातरि
अनुपद्य्-अन्वेष्टा
साक्षाद् द्रष्टरि सञ्ज्ञायाम्
क्षेत्रियच् परक्षेत्रे चिकित्स्यः
इन्द्रियम्-इन्द्रलिङ्गम्-इन्द्रदृष्टम्-इन्द्रसृष्टम्-इन्द्रजुष्टम्-इन्द्रदत्तम् इति वा
तद् अस्य अस्त्य् अस्मिन्न् इति मतुप्
रसादिभ्यश् च
प्राणिस्थाद् आतो लज् अन्यतरस्याम्
सिध्म-आदिभ्यश् च
वत्सांसाभ्यां कामबले
फेनाद् इलच् च
लोमादि-पामादि-पिच्छादिभ्यः श-न-इलचः
प्रज्ञा-श्रद्धा-अर्चा-वृत्तिभ्यो णः
तपः-सहस्राभ्यां विनि-इनी
अण् च
सिकता-शर्कराभ्यां च
देशे लुब्-इलचौ च
दन्त उन्नत उरच्
ऊष-सुषि-मुष्क-मधो रः
द्यु-द्रुभ्यां मः
केशाद् वो ऽन्यतरस्याम्
गाण्ड्यजगात् सञ्ज्ञायाम्
काण्ड-आण्डाद् ईरन्न्-ईरचौ
रजः-कृष्य्-आसुति-परिषदो वलच्
दन्त-शिखात् सञ्ज्ञायाम्
ज्योत्स्ना-तमिस्रा-शृङ्गिण-ऊर्जस्विन्न्-ऊर्जस्वल-गोमिन्-मलिन-मलीमसाः
अत इनिठनौ
व्रीह्यादिभ्यश् च
तुन्दादिभ्य इलच् च
एक-गो-पूर्वाट् ठञ् नित्यम्
शत-सहस्र-अन्ताच् च निष्कात्
रूपाद् आहत-प्रशंसयोर् यप्
अस्-माया-मेधा-स्रजो विनिः
बहुलं छन्दसि
ऊर्णाया युस्
वाचो ग्मिनिः
आलजाटचौ बहुभाषिणि
स्वामिन्न्-ऐश्वर्ये
अर्श-आदिभ्यो ऽच्
द्वन्द्व-उपताप-गर्ह्यात् प्राणिस्थाद् इनिः
वात-अतिसाराभ्यां कुक् च
वयसि पूरणात्
सुख-आदिभ्यश् च
धर्म-शील-वर्णान्ताच् च
हस्ताज् जातौ
वर्णाद् ब्राह्मचारिणि
पुष्कर-आदिभ्यो देशे
बलादिभ्यो मतुब् अन्यतरस्याम्
सञ्ज्ञायां मन्-माभ्याम्
कं-शंभ्यां ब-भ-युस्-ति-तु-त-यसः
तुन्दि-बलि-वटेर् भः
अहं-शुभमोर् युस्
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0