भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 5.1

5.1.1

प्राक्-क्रीताच् छः

5.1.2

उ-गवादिभ्यो यत्

5.1.3

कंवलाच् च सञ्ज्ञायाम्

5.1.4

विभाषा हविर्-अपूप-आदिभ्यः

5.1.5

तस्मै हितम्

5.1.6

शरीर-अवयवाद् यत्

5.1.7

खल-यव-माष-तिल-वृष-ब्रह्मणश् च

5.1.8

अजाविभ्यां थ्यन्

5.1.9

आत्मन्-विश्वजन-भोग-उत्तरपदात् खः

5.1.10

सर्व-पुरुषाभ्यां ण-ढञौ

5.1.11

माणव-चरकाभ्यां खञ्

5.1.12

तद्-अर्थं विकृतेः प्रकृतौ

5.1.13

छदिर्-उपधि-बलेर् ढञ्

5.1.14

ऋषभ-उपानहोर् ञ्यः

5.1.15

चर्मणो ऽञ्

5.1.16

तद् अस्य तद् अस्मिन् स्याद् इति

5.1.17

परिखाया ठञ्

5.1.18

प्राग्-वतेष् ठञ्

5.1.19

आ-अर्हाद् अ-गोपुच्छ-सङ्ख्या-परिमाणाट् ठक्

5.1.20

असमासे निष्क-आदिभ्यः

5.1.21

शताच् च ठन्यताव् अशते

5.1.22

सङ्ख्याया अति-शद्-अन्तायाः कन्

5.1.23

वतोर् इड् वा

5.1.24

विंशति-त्रिंशद्भ्यां ड्वुन् असञ्ज्ञायाम्

5.1.25

कंसाट् टिठण्

5.1.26

शूर्पाद् अञ् अन्यतरस्याम्

5.1.27

शतमान-विंशतिक-सहस्र-वसनाद् अण्

5.1.28

अध्यर्धपूर्व-द्विगोर् लुग् असञ्ज्ञायाम्

5.1.29

विभाषा कार्षापण-सहस्राभ्याम्

5.1.30

द्वि-त्रि-पूर्वान् निष्कात्

5.1.31

बिस्ताच् च

5.1.32

विंशतिकात् खः

5.1.33

खार्या ईकन्

5.1.34

पण-पाद-माष-शताद् यत्

5.1.35

शाणाद् वा

5.1.36

द्वि-त्रि-पूर्वाद् अण् च

5.1.37

तेन क्रीतम्

5.1.38

तस्य निमित्तं संयोग-उत्पातौ

5.1.39

गोद्व्यचो ऽसङ्ख्या-परिमाण-अश्व-अदेर् यत्

5.1.40

पुत्राच् छ च

5.1.41

सर्वभूमि-पृथिवीभ्याम् अणञौ

5.1.42

तस्य+ईश्वरः

5.1.43

तत्र विदित इति च

5.1.44

लोक-सर्वलोकाट् ठञ्

5.1.45

तस्य वापः

5.1.46

पात्रात् ष्ठन्

5.1.47

तद् अस्मिन् वृद्ध्य्-आय-लाभ-शुल्क-उपदा दीयते

5.1.48

पूरण-अर्धाट् ठन्

5.1.49

भागाद् यच् च

5.1.50

तद् धरति वहव्त्य् आवहति भाराद् वंशादिभ्यः

5.1.51

वस्न-द्रव्याभ्यां ठन्-कनौ

5.1.52

सम्भवत्य् अवहरति पचति

5.1.53

आढक-आचित-पात्रात् खो ऽन्यतरस्याम्

5.1.54

द्विगोः ष्ठंश् च

5.1.55

कुलिजाल् लुक्खौ च

5.1.56

सो ऽस्य अंश-वस्न-भृतयः

5.1.57

तद् अस्य परिमाणम्

5.1.58

सङ्ख्यायाः सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु

5.1.59

पङ्क्ति-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तत्य्-अशीति-नवति-शतम्

5.1.60

पञ्चद्-दशतौ वर्गे वा

5.1.61

सप्तनो ऽञ् छन्दसि

5.1.62

त्रिंशच्-चत्वारिंशतोर् ब्राह्मणे सञ्ज्ञायां डण्

5.1.63

तद् अर्हति

5.1.64

छेद-आदिभ्यो नित्यम्

5.1.65

शीर्षच्छेदाद् यच् च

5.1.66

दण्दादिभ्यः

5.1.67

छन्दसि च

5.1.68

पात्राद् घंश् च

5.1.69

कडङ्करदक्षिणाच् छ च

5.1.70

स्थालीबिलात्

5.1.71

यज्ञ-र्त्विग्भ्यां घ-खञौ

5.1.72

पारायण-तुरायण-चाद्न्रायणं वर्तयति

5.1.73

संशयमापन्नः

5.1.74

योजनं गच्छति

5.1.75

पथः ष्कन्

5.1.76

पन्थो ण नित्यम्

5.1.77

उत्तरपथेन् आहृतं च

5.1.78

कालात्

5.1.79

तेन विर्वृत्तम्

5.1.80

तम् अधीष्टो भृतो भूतो भावी

5.1.81

मासाद् वयसि यत्खञौ

5.1.82

द्विगोर् यप्

5.1.83

षण्मासाण् ण्यच् च

5.1.84

अवयसि ठंश् च

5.1.85

समायाः खः

5.1.86

द्विगोर् वा

5.1.87

रात्र्य्-अहः-संवत्सराच् च

5.1.88

वर्षाल् लुक् च

5.1.89

चित्तवति नित्यम्

5.1.90

षष्टिकाः षष्टिरात्रेण पच्यन्ते

5.1.91

वत्सरान्ताच् छश् छन्दसि

5.1.92

संपरिपूर्वात् ख च

5.1.93

तेन परिजय्य-लभ्य-कार्य-सुकरम्

5.1.94

तद् अस्य ब्रह्मचर्यम्

5.1.95

तस्य च दक्षिणा यज्ञाख्येभ्यः

5.1.96

तत्र च दीयते कार्यं भववत्

5.1.97

व्युष्ट-आदिभ्यो ऽण्

5.1.98

तेन यथाकथाच-हस्ताभ्यां ण-यतौ

5.1.99

सम्पादिनि

5.1.100

कर्म-वेषाद् यत्

5.1.101

तस्मै प्रथवति सन्ताप-आदिभ्याः

5.1.102

योगाद् यच् च

5.1.103

कर्मण उकञ्

5.1.104

समयस् तद् अस्य प्राप्तम्

5.1.105

ऋतोरण्

5.1.106

छन्दसि घस्

5.1.107

कालाद् यत्

5.1.108

प्रकृष्टे ठञ्

5.1.109

प्रयोजनम्

5.1.110

विशाखा-अषाढाद् अण् मन्थ-दण्डयोः

5.1.111

अनुप्रवचन-आदिभ्यश् छः

5.1.112

समापनात् सपूर्वपदात्

5.1.113

ऐकागारिकट् चौरे

5.1.114

आकालिकड्-आद्यन्तवचने

5.1.115

तेन तुल्यं क्रिया चेद् वतिः

5.1.116

तत्र तस्य+इव

5.1.117

तद् अर्हम्

5.1.118

उपसर्गाच् छन्दसि धात्व्-अर्थे

5.1.119

तस्य भावस् त्व-तलौ

5.1.120

आ च त्वात्

5.1.121

न नञ्पूर्वात् तत्पुरुषाद् अचतुर-सङ्गतल्-अवण-वट-बुध-कत-रस-लसेभ्यः

5.1.122

पृथ्व्-आदिभ्य इमनिज् वा

5.1.123

वर्ण-दृढ-आदिभ्यः ष्यञ् च

5.1.124

गुणवचन-ब्राह्मणादिभ्यः कर्मणि च

5.1.125

स्तोनाद् यन् नलोपश् च

5.1.126

सख्युर् यः

5.1.127

कपि-ज्ञात्योर् ढक्

5.1.128

पत्यन्तपुरोहितादिभ्यो यक्

5.1.129

प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्यो ऽञ्

5.1.130

हायनान्त-युवादिभ्यो ऽण्

5.1.131

इग्-अन्ताश् च लघु-पूर्वात्

5.1.132

य-उपधाद् गुरु-उपोत्तमाद् वुञ्

5.1.133

द्वन्द्व-मनोज्ञ-आदिभ्यश् च

5.1.134

गोत्रचरणाच् छ्लाघा-अत्याकार-तदवेतेषु

5.1.135

होत्राभ्यश् छः

5.1.136

ब्रह्मणस् त्वः

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc