अष्टाध्यायी · अध्याय 4.4
प्राग् वहतेष् ठक्
तेन दीव्यति खनति जयति जितम्
संस्कृतम्
कुलत्थ-क-उपधाद् अण्
तरति
गोपुच्छाट् ठञ्
नौ-द्व्यचष् ठन्
परति
आकर्षात् ष्ठल्
पर्प-आदिभ्यः ष्ठन्
श्वगणाट् ठञ्च
वेतन-आदिभ्यो जीवति
वस्न-क्रय-विक्रयाट् ठन्
आयुधच् छ च
हरत्य् उत्सङ्ग-आदिभ्यः
भस्त्रादिभ्यः ष्ठन्
विभाषा विवध-वीवधात्
अण् कुटिलिकायाः
निर्वृत्ते ऽक्षद्यूत-आदिभ्यः
त्रेर्मम् नित्यम्
अपमित्य-याचिताभ्यां कक् कनौ
संसृष्टे
चूर्णादिनिः
लवणाल् लुक्
मुद्गाद् अण्
व्यञ्जनैर् उपसिक्ते
ओजःसहो ऽम्भसा वर्तते
तत् प्रत्य्-अनु-पूर्वम् ईप-लोम-कूलम्
परिमुखं च
प्रयच्छति गर्ह्यम्
कुसीद-दश-एकादशात् ष्ठन्ष्ठचौ
उच्छति
रक्षति
शब्द-दर्दुरं करोति
पक्षि-मत्स्य-मृगान् हन्ति
परिपन्थं च तिष्ठति
माथ-उत्तरपद-पदव्य्-अनुपदं धावति
आक्रन्दाट् ठञ् च
पद-उत्तरपदं गृह्णाति
प्रतिकण्ठ-अर्थ-ललामं च
धर्मं चरति
प्रतिपथम् एति ठंश् च
समवायान् समवैति
परिषदो ण्यः
सेनाया वा
सञ्ज्ञायां ललाट-कुक्कुट्यौ पश्यति
तस्य धर्म्यम्
अण् महिष्य्-आदिभ्यः
ऋतो ऽञ्
अवक्रयः
तद् अस्य पण्यम्
लवणाट् ठञ्
किशरादिभ्यः ष्ठन्
शलालुनो ऽन्यतरस्याम्
शिल्पम्
मड्डुक-झर्झराद् अण् अन्यतरस्याम्
प्रहरणम्
परश्वधाट् ठञ् च
शक्ति-यष्ट्योर् ईकक्
अस्ति-नास्ति-दिष्टं मतिः
शीलं
छत्रादिभ्यो णः
कर्माध्ययने वृत्तम्
बह्व्-अच्-पूर्वपदाट् ठच्
हितं भक्षाः
त दस्मै दीयते नियुक्तम्
श्राणा-मांस-ओदनाट् टिठन्
भक्टाद् अण् आन्यतरस्याम्
तत्र नियुक्तः
अगार-अन्ताट् ठन्
अध्यायिन्य् अदेश-कालात्
कठिनान्त-प्रस्तार-संस्थानेषु व्यवहरति
निकटे वसति
आवसथात् ष्ठल्
प्राग् घिताद् यत्
तद्वहति रथयुगप्रासङ्गम्
धुरो यड्-ढकौ
खः सर्वधुरात्
एकधुराल् लुक् च
शकटाद् अण्
हलसीराट् ठक्
सञ्ज्ञायां जन्याः
विध्यत्यधनुषा
धन-गणं लब्धा
अन्नाण् णः
वशं गतः
पदम् अस्मिन् दृश्यम्
मूलम् अस्य आवर्हि
सञ्ज्ञायां धेनुष्या
गृहपतिना संयुक्ते ञ्यः
नौ-वयो-धर्म-विष-मूल-मूल-सीता-तुलाभ्यस् तार्य-तुल्य-प्राप्य-वध्य-आनाम्य-सम-समित-संमितेषु
धर्म-पथ्य्-अर्थ-न्यायाद् अनपेते
छन्दसो निर्मिते
उरसो ऽण् च
हृदयस्य प्रियः
बन्धने चर्षौ
मतजनहलात् करणजल्पकर्षेषु
तत्र साधुः
प्रतिजन-आदिभ्यः खञ्
भक्ताण् णः
परिषदो ण्यः
कथादिभ्यष् ठक्
गुड-आदिभ्यष् ठञ्
पथ्य्-अतिथि-वसति-स्वपतेर् ढञ्
सभायाः यः
ढश् छन्दसि
समानातीर्थे वासी
समान-उदरे शयित ओ चोदात्तः
सोदराद् यः
भवे छन्दसि
पाथो-नदीभ्यां ड्यण्
वेशन्त-हिमवद्भ्याम् अण्
स्रोतसो विभाषा ड्यड्-ड्यौ
सगर्भ-सयूथ-सनुताद् यन्
तुग्राद् घन्
अग्राद् यत्
घ-च्छौ च
समुद्र-अभ्राद् घः
बर्हिषि दत्तम्
दुतस्य भाग-कर्मणी
रक्षो-यातूनां हननी
रेवती-जगती-हविष्याभ्यः प्रशस्ये
असुरस्य स्वम्
मायायाम् अण्
तद्वान् आसाम् उपधानो मन्त्र इति इष्टकासु लुक् च मतोः
अश्विमानण्
वयस्यासु मूर्ध्नो मतुप्
मत्व्-अर्हे मास-तन्वोः
मधोर् ञ च
ओजसो ऽहनि यत्खौ
वेशो-यश-आदेर् भगाद् यल्
ख च
पूर्वैः कृतम् इन-यौ च
अद्भिः संस्कृतम्
सहस्रेण संमितौ घः
मतौ च
सोमम् अर्हति यः
मये च
मधोः
वसोः समूहे च
नक्षत्राद् घः
सर्वदेवात् तातिल्
शिव-शम्-अरिष्टस्य करे
भावे च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0