अष्टाध्यायी · अध्याय 4.3
युष्मद्-अस्मदोर् अन्यतरस्यां खञ् च
तस्मिन्न् अणि च युष्माक-अस्माकौ
तवक-ममकाव् एकवचने
अर्धाद् यत्
पर-अवर-अधम-उत्तम-पूर्वाच् च
दिक्-पूर्वपदाट् ठञ् च
ग्राम-जनपद+एकदेशाद् अञ्-ठञौ
मध्यानमः
अ साम्प्रतिके
द्वीपाद् अनुसमुद्रं यञ्
कालाट् ठञ्
श्राद्धे शरदः
विभाषा रोग-आतपयोः
निशा-प्रदोषाभ्यां च
श्वसस् तुट् च
सन्धिवेल-आद्य्-ऋतु-नक्षत्रेभ्यो ऽण्
प्रावृष एण्यः
वर्षाभ्यष्ठक्
छन्दसि ठञ्
वसन्ताच् च
हेमन्ताच् च
सर्वत्र अण् च तलोपश् च
सायं-चिरं-प्राह्णे-प्रगे ऽव्ययेभ्यष् ट्यु-ट्युलौ तुट् च
विभाषा पूर्वाह्ण-अपराह्णाभ्याम्
तत्र जातः
प्रावृषष्ठप्
सञ्ज्ञायां शरदो वुञ्
पूर्वाह्ण-अपराह्ण-आर्द्रा-मूल-प्रदोष-अवस्कराद् वुन्
पथः पन्थ च
अमावास्याया वा
अ च
सिन्ध्व्-अपकराभ्यां कन्
अणञौ च
श्रविष्ठा-फल्गुन्य्-अनुराधा-स्वाति-तिष्य-पुनर्वसु-हस्त-विशाखा-अषाढा-बहुलाल् लुक्
स्थानानत-गोशाल-खरशालाच् च
वत्सशाला-अभिजिद्-अश्वयुक्-छतभिषजो वा
नक्षत्रेभ्यो बहुलम्
कृत-लब्ध-क्रीत-कुशलाः
प्रायभवः
उपजानु-उपकर्ण-उपनीवेष् ठक्
सम्भूते
कोशाड् ढञ्
कालात् साधु-पुष्प्यत्-पच्यमानेषु
उप्ते च
आश्वयुज्या वुञ्
ग्रीष्म-वसन्ताद् अन्यत्रस्याम्
देयम् ऋणे
कलाप्य्-अश्वत्थ-यवबुसाद् वुन्
ग्रीष्म-अवरसमाद् वुञ्
संवत्सर-आग्रहायणीभ्यां ठञ् च
व्याहरति मृगः
तद् अस्य सोढम्
तत्र भवः
दिग्-आदिभ्यो यत्
शरीर-अवयवाच् च
दृति-कुक्षि-कलशि-वस्त्य्-अस्त्य्-अहेर् ढञ्
ग्रीवाभ्यो ऽण् च
गम्भीराञ् ञ्यः
अव्ययीभावाच् च
अन्तः-पूर्वपदाट् ठञ्
ग्रामात् पर्य्-अनु-पूर्वात्
जिह्वामूल-अङ्गुलेश् छः
वर्गान्ताच् च
अशब्दे यत्-खाव् अन्यतरस्याम्
कर्ण-ललाटात् कन् अलङ्कारे
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः
बह्वचो ऽन्तोदात्ताट ठञ्
क्रतु-यज्ञेभ्यश् च
अध्यायेष्व् एव र्षेः
पौराडाश-पुरोडाशात् ष्ठन्
छन्दसो यदणौ
द्व्यज्-ऋद्-ब्राह्मण-र्क्-प्रथम-अध्वर-पुरश्चरण-नामाख्याताट् ठक्
अण् ऋगयन-आदिभ्यः
तत आगतः
ठग् आयस्थानेभ्यः
शुण्डिकादिभ्यो ऽण्
विद्या-योनि-सम्बन्धेभ्यो वुञ्
ऋतष्-ठञ्
पितुर् यच् च
गोत्राद् अङ्कवत्
हेतु-मनुष्येभ्यो ऽन्यतरस्यां रूप्यः
मयट् च
प्रभवति
विदूराञ् ञ्यः
तद् गच्छति पथि-दूतयोः
अभिनिष्क्रामति द्वारम्
अधिकृत्य कृते ग्रन्थे
शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यश् छः
सो ऽस्य निवासः
अभिजनश् च
आयुधजीविभ्यश् छः पर्वते
शण्दिक-आदिभ्यो ञ्यः
सिन्धु-तक्षशिला-आदिभ्यो ऽण्-अञौ
तूदी-शलातुर-वर्मती-कूचवाराड् ठक्-छण्-ढञ्-यकः
भक्तिः
अचित्ताद् अदेश-कालाट् ठक्
महाराजाट् ठञ्
वासुदेव-अर्जुनाभ्यां वुन्
गोत्र-क्षत्रिय-आख्येभ्यो बहुलं वुञ्
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने
तेन प्रोक्तम्
तित्तिरि-वरतन्तु-खण्डिक-उखाच् छण्
काश्यप-कौशिकाभ्याम् ऋषिभ्यां णिनिः
कलापि-वैशम्पायन-अन्तेवासिभ्यश् च
पुराण-प्रोक्तेषु ब्राह्मण-कल्पेषु
शौनक-आदिभ्यश् छन्दसि
कठ-चरकाल् लुक्
कलापिनो ऽण्
छगलिनो ढिनुक्
पाराशर्य-शिलालिभ्यां भिक्षु-नटसूत्रयोः
कर्मन्द-कृशाश्वाद् इनिः
तेन+एकदिक्
तसिश् च
उरसो यच् च
उपज्ञाते
कृते ग्रन्थे
सञ्ज्ञायाम्
कुलाल-आदिभ्यो वुञ्
क्षुद्रा-भ्रमर-वटर-पादपाद् अञ्
तस्य+इदम्
रथाद्यत्
पत्रपूर्वा दञ्
पत्र-अध्वर्यु-परिषदश् च
हल-सीराट् ठक्
द्वन्द्वाद् वुन् वैर-मैथुनिकयोः
गोत्र-चरणाद् वुञ्
सङ्घ-अङ्क-लक्षणेष्व् अञ्-यञ्-इञाम् अण्
शाकलाद् वा
छन्दोग-औक्थिक-याज्ञिक-बह्वृच-नटाज् ञ्यः
न दण्डमाणव-अन्तेवासिषु
रैवतिक-आदिभ्यश् छः
कौपिञ्जल-हासितपदादण्
आथर्वणिकस्य+इक-लोपश् च
तस्य विकारः
अवयवे च प्राण्य्-ओषधि-वृक्षेभ्यः
बिल्व-आदिभ्यो ऽण्
क-उपाधाच् च
त्रपु-जतुनोः षुक्
ओरञ्
अनुदात्त-आदेश् च
पलाश-आदिभ्यो वा
शम्याष् ट्लञ्
मयड् वआ+एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः
नित्यं वृद्ध-शर-आदिभ्यः
गोश् च पुरीषे
पिष्टाच् च
सञ्ज्ञायां कन्
व्रीहेः पुरोडाशे
असञ्ज्ञायां तिल-यवाभ्याम्
द्व्यचश् छन्दसि
न+उत्त्वद्-वर्ध्र-बिल्वात्
ताल-आदिभ्यो ऽण्
जातरूपेभ्यः परिमाणे
प्राणि-रजत-आदिभ्यो ऽञ्
ञितश् च तत्प्रत्ययात्
क्रीतवत् प्रैमाणात्
उष्ट्राद् वुञ्
उमा-ऊर्णयोर् वा
एण्या ढञ्
गोपयसोर् यत्
द्रोश् च
माने वयः
फले लुक्
प्लक्ष-आदि-भ्यो ऽण्
जम्ब्वा वा
लुप् च
हरीतक्य्-आदिभ्य श्च
कंसीय-परशव्ययोर् यञ्-अञौ लुक् च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0