अष्टाध्यायी · अध्याय 4.2
तेन रक्तं रागात्
लाक्षा-रोचना-शकल-कर्दमाट् ठक्
नक्षत्रेण युक्तं कालः
लुब् अविशेषे
सञ्ज्ञायां श्रवण-अश्वत्थाभ्याम्
द्वन्वाच् छः
दृष्टं साम
कलेर् ढक्
वामदेवाड् ड्यड्-ड्यौ
परिवृतो रथः
पाण्डुकम्बलाद् इनिः
द्वैप-वैयाघ्राद् अञ्
कौमार-अपूर्ववचने
तत्र+उद्धृतम् अमत्रेभ्यः
स्थण्डिलाच् छयितरि व्रते
संस्कृतं भक्षाः
शूल-उखाद् यत्
दध्नष् ठक्
उदश्वितो ऽन्यतरस्याम्
क्षीराड् ढञ्
सा ऽस्मिन् पौर्णमासी इति सञ्ज्ञायाम्
आग्रहायण्य्-अश्वत्थाट् ठक्
विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः
सा ऽस्य देवता
कस्य+इत्
शुक्राद् घन्
अपोनप्त्र्-अपांनप्तृभ्यां घः
छ च
महेन्द्राद् घाणौ च
सोमाट् ट्यण्
वाय्व्-ऋतु-पित्र्-उषसो यत्
द्यावापृथिवी-शुनासीर-मरुत्वद्-अग्नीषोम-वास्तोष्पति-गृहमेधाच् छ च
अग्नेर् ढक्
कालेभ्यो भववत्
महाराज-प्रोष्ठपदाट् ठञ्
पितृव्य-मातुल-मातामह-पितामहाः
तस्य समूहः
भिक्षा-आदिभ्यो ऽण्
गोत्र-उक्ष-उष्ट्र-उरभ्र-राज-राजन्य-राजपुत्र-वत्स-मनुष्य-अजाद् वुञ्
केदाराद् यञ् च
ठञ् कवचिनश् च
ब्राह्मण-माणव-वाडवाद् यन्
ग्राम-जन-बन्धु-सहायेभ्यस् तल्
अनुदात्तादेर् अञ्
खण्डिक-आदिभ्यश् च
चरणेभ्यो धर्मवत्
अचित्त-हस्ति-धेनोष् ठक्
केश-अश्वाभ्यां यञ्-छाव् अन्यतरस्याम्
पाशादिभ्यो यः
खल-गो-रथात्
इनि-त्र-कट्यचश् च
विषयो देशे
राजन्यादिभ्यो वुञ्
भौरिक्याद्य्-ऐषुकार्यादिभ्यो विधल्भक्तलौ
सो ऽस्य-आदिर् इति च्छन्दसः प्रगाथेषु
सङ्ग्रामे प्रयोजन-योद्धृभ्यः
तद् अस्यां प्रहरणम् इति क्रीडायां णः
घञः सास्यां क्रियेति ञः
तद् अधीते तद् वेद
क्रतु-उक्थादि-सूत्रान्ताट् ठक्
क्रमादिभ्यो वुन्
अनुब्राह्मणाद् इनिः
वसन्तादिभ्यष् ठक्
प्रोक्ताल् लुक्
सूत्राच् च क+उपधात्
छन्दो-ब्राहमणानि च तद्-विषयाणि
तद् अस्मिन्न् अस्ति इति देशे तन्नाम्नि
तेन निर्वृत्तम्
तस्य निवासः
अदूरभवश् च
ओर् अञ्
मतोश् च बह्व्-अज्-अङ्गात्
बह्व्-अचः कूपेषु
उदक् च विपाशः
सङ्कलादिभ्यश् च
स्त्रीषु सौवीर-साल्व-प्राक्षु
सुवास्त्व्-आदिभ्यो ऽण्
रोणी
क-उपधाच् च
वुञ्-छण्-क-ठज्-इल-स-इनि-र-ढ ण्य-य-फक्-फिञ्-इञ्-ञ्य-कक्-ठको ऽरीहण-कृशाश्व-र्श्य-कुमुद-काश-तृण-प्रेक्षा-अश्म-सखि-सङ्काश-बल-पक्ष-कर्ण-सुतङ्गम-प्रगदिन्-वराह-कुमुद-आदिभ्यः
जनपदे लुप्
वरण-आदिभ्यश् च
शर्कराया वा
ठक्-छौ च
नद्यां मतुप्
मध्वादिभ्यश् च
कुमुद-नड-वेतसेभ्यो ड्मतुप्
नड-शादाड् ड्वलच्
शिखाया वलच्
उत्करादिभ्यश् छः
नडादीनां कुक् च
शेषे
राष्ट्र-अवारपाराद् घ-खौ
राष्ट्र-अवारपाराद् घ-खौ
कत्र्य्-आदिभ्यो ढकञ्
कुल-कुक्षि-ग्रीवाभ्यः श्व-अस्य्-अलङ्कारेषु
नद्य्-आदिभ्यो ढक्
दक्षिणा-पश्चात्-पुरसस् त्यक्
कापिश्याः ष्फक्
रङ्कोर् अमनुष्ये ऽण् च
द्यु-प्राग्-अपाग्-उदक्-प्रतीचो यत्
कन्थायाष्ठक्
वर्णौ वुक्
अव्ययात् त्यप्
ऐषमेओ-ह्यः-श्वसो ऽन्यतरस्याम्
तीर-रूप्य-उत्तरपदाद् अञ्-ञौ
दिक्-पूर्वपदाद् असञ्ज्ञायां ञः
मद्रेभ्यो ऽञ्
उदीच्यग्रामाच् च बह्वचो ऽन्तोदात्तात्
प्रस्थ-उत्तरपद-पलद्यादि-क-उपधादण्
कण्व-आदिभ्यो गोत्रे
इञश् च
न द्व्य्-अचः प्राच्य-भरतेसु
वृद्धाच् छः
भवतष् ठक्-छसौ
काश्यादिभ्यष् ठञ्-ञिठौ
वाहीकग्रामेभ्यश् च
विभाषा+उशीनरेषु
ओर् देशे ठञ्
वृद्धत् प्राचाम्
धन्व-य-उपधाद् वुञ्
प्रस्थ-पुर-वहान्ताच् च
र-उपध-इतोः प्राचाम्
जनपद-तदवध्योश् च
अवृद्धाद् अपि बहुवचन-विषयात्
कच्छ-अग्नि-वक्त्र-गर्त-उत्तरपदात्
धूमादिभ्यश् च
नगरात् कुत्सन-प्रावीण्ययोः
अरण्यान् मनुस्ये
विभाषा कुरु-युगन्धराभ्याम्
मद्र-वृज्योः कन्
कोपधाद् अण्
कच्छ-आदिभ्यश् च
मनुस्य-तत्स्थयोर् वुञ्
अपदातौ साल्वात्
गो-यवग्वोश् च
गर्त-उत्तरपदाच् छः
गह-आदिभ्यश् च
प्राचां कटादेः
राज्ञः क च
वृद्धाद् अक-इक-अन्त-ख-उपधात्
कन्था-पलद-नगर-ग्राम-ह्रद-उत्तरपदात्
पर्वताच् च
विभाषा ऽमनुष्ये
कृकण-पर्णाद् भरद्वाजे
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0