अष्टाध्यायी · अध्याय 4.1
ङ्य्-आप्-प्रातिपदिकात्
स्व्-औ-जस्-अम्-औट्-छष्-टा-भ्यां-भिस्-ङेभ्याम्-भ्यस्-ङसि-भ्यां-भ्यस्-ङस्-ओस्-आम्-ङ्य्-ओस्-सुप्
स्त्रियाम्
अजाद्य्-अतष् टाप्
ऋन्-नेभ्यो ङीप्
उगितश् च
वनो र च
पादो ऽन्यतरस्याम्
टाब् ऋचि
न षट्स्वस्रादिभ्यः
मनः
अनो बहुव्रीहेः
डाब् उभाभ्याम् अन्यतरस्याम्
अनुपसर्जनात्
टिड्-ढ-अण्-अञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरप्ख्युनाम्
यञश् च
प्राचां ष्फ तद्धितः
सर्वत्र लोहितादि-कतन्तेभ्यः
कौरव्य-माण्डूकाभ्यां च
वयसि प्रथमे
द्विगोः
अपरिमाण-बिस्त-आचित-कम्बल्येभ्यो न तद्धितलुकि
काण्ड-अन्तात् क्षेत्रे
पुरुषात् प्रमाणे ऽन्यतरस्याम्
बहुव्रीहेर् ऊधसो ङीष्
सङ्ख्याव्ययादेर्ङीप्
दाम-हायन-अनाच् च
अन उपधालोपिनो ऽन्यतरस्याम्
नित्यं सञ्ज्ञा-छन्दसोः
केवल-मामक-भागधेय-पाप-अपर-समान-आर्यकृत-सुमङ्गल-भेषजाच् च
रात्रेश् च अजसौ
अन्तर्वत्-पतिवतोर् नुक्
पत्युर् नो यज्ञसंयोगे
विभाषा सपूर्वस्य
नित्यं सपत्न्यादिषु
पूतक्रतोर् ऐ च
वृषाकप्य्-अग्नि-कुसित-कुसिदानाम् उदात्तः
मनोर् औ वा
वर्णाद् अनुदात्तात् तोपधात्तो नः
अन्यतो ङीष्
षिद्-गौरादिभ्यश् च
जानपद-कुण्ड-गोण-स्थल-भाज-नाग-काल-नील-कुश-कामुक-कबराद् वृत्त्य्-अमत्र-आवपन-अकृत्रिमा-श्राणा-स्थौल्य-वर्ण-अनाच्छादन-अयोविकार-मैथुनेच्छा-केशवेशेषु
शोणात् प्राचाम्
वा+उतो गुणवचनात्
बह्व-आदिभ्यश् च
नित्यं छन्दसि
भुवश् च
पुंयोगाद् आख्यायाम्
इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणामानुक्
क्रीतात् करण-पूर्वात्
क्ताद् अल्पाअख्यायाम्
बहुव्रीहेश् च अन्तोदत्तात्
अस्वाङ्ग-पूर्वपदाद् वा
स्वाङ्गाच् च+उपसर्जनाद् असंयोग-उपधात्
नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच् च
न क्रोडादि-बह्वचः
सह-नञ्-विद्यमान-पूर्वाच् च
नख-मुखात् सञ्ज्ञायाम्
दीर्घजिह्वी च च्छन्दसि
दिक्-पूर्वपदान् ङीप्
वाहः
सख्य् अशिष्वी इति भाषायाम्
जातेर् अस्त्रीविषयाद् अय-उपधात्
पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदाच् च
इतो मनुस्य-जातेः
ऊङ् उतः
बाह्वन्तात् सञ्ज्ञायाम्
पङ्गोश् च
ऊरु-उत्तरपदाद् औपम्ये
संहित-शफ-लक्षण-वाम-आदेश् च
कद्रु-कमण्डल्वोश् छन्दसि
सञ्ज्ञायाम्
शार्ङ्गरव-आद्य्-अञो ङीन्
यङश् चाप्
आवङ्याच् च
तद्धिताः
यूनस् तिः
अण्-इञोर् अनार्षयोर् गुरु-उपोत्तमयोः ष्यङ् गोत्रे
गोर-अवयवात्
क्रौड्य्-आदिभ्यश् च
दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्यो ऽन्यतरस्याम्
समर्थानां प्रथमाद् वा
प्राग् दीव्यतो ऽण्
अश्वपत्यादिभ्यश् च
दित्य्-अदित्य्-आदित्य-पत्य्-उत्तरपदाण् ण्यः
उत्स-आदिभ्यो ऽञ्
स्त्री-पुंसाभ्यां नञ्-स्नञौ भवनात्
द्विगोर् लुग्-अनपत्ये
गोत्रे ऽलुग्-अचि
यूनि लुक्
फक्-फिञोर् अन्यतरस्याम्
तस्य अपत्यम्
एको गोत्रे
गोत्राद् यून्य् अस्त्रियां
अत इञ्
बाह्व्-आदिभ्यश् च
सुधातुर् अकङ् च
गोत्रे कुञ्ज-आदिभ्यश् च्फञ्
नडादिभ्यः फक्
हरित-आदिभ्यो ऽञः
यञ्-इञोश् च
शरद्वच्-छुनक-दर्भाद् भृगु-वत्स-आग्रायणेषु
द्रोण-पर्वत-जीवन्ताद् अन्यतरस्याम्
अनृष्य्-आनन्तर्ये बिद-आदिभ्यो ऽञ्
गर्ग-आदिभ्यो यञ्
मधु-बभ्व्रोर् ब्राह्मण-कौशिकयोः
कपि-बोधाद् आङ्गिरसे
वतण्डाच् च
लुक् स्त्रियाम्
अश्वादिभ्यः फञ्
भर्गात् त्रैगर्ते
शिव-आदिभ्यो ऽण्
अवृद्धाभ्यो नदी-मानुषीभ्यस् तन्नामिकाभ्यः
ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश् च
मातुर् उत् सङ्ख्या-सं-भद्र-पूर्वायाः
कन्यायाः कनीन च
विकर्ण-शुङ्ग-छङ्गलाद् वत्स-भरद्वाज-अत्रिषु
पीलाया वा
ठक् च मण्डूकात्
स्त्रीभ्यो ढक्
द्व्यचः
इतश्-च-अनिञः
शुभ्र-आदिभ्यश् च
विकर्ण-कुषीतकात् काष्यपे
भ्रवो वुक् च
कल्याण्यादीनाम् इनङ्
कुलटाया
चटकाया ऐरक्
गोधाया ढ्रक्
आरग् उदीचाम्
क्षुद्राभ्यो वा
पितृष्वसुश् छण्
ठकि लोपः
मातृ-ष्वसुश् च
चतुष्पाद्भ्यो ढञ्
गृष्ट्य्-आदिभ्यश् च
राज-श्वशुराद् यत्
क्षत्राद् घः
कुलात् खः
अपूर्वपदाद् अन्यत्रस्यां यङ्-ढकञौ
महाकुलाद् अञ्-खञौ
दुष्कुलाड् ढक्
स्वसुश् छः
भ्रातुर् व्यच् च
व्यन् सपत्ने
रेवत्य्-आदिभ्यष् ठक्
गोत्र-स्त्रियाः कुत्सने ण च
वृद्धाट् ठक् सौवीरेषु बहुलम्
फेश् छ च
फाण्डाहृति-मिमताभ्यां ण-फिञौ
कुर्वादिभ्यो ण्यः
सेनान्त-लक्षण-कारिभ्यश् च
उदीचाम् इञ्
तिकादिभ्यः फिञ्
कौशल्य-कार्मार्याभ्यां च
अणो द्व्यचः
उदीचां वृद्धाद् अगोत्रात्
वाकिन-अदीनां कुक् च
पुत्रान्ताद् अन्यतरस्याम्
प्राचाम् अवृद्धात् फिन् बहुलम्
मनोर् जाताव् अञ्-अयतौ षुक् च
अपत्येअं पौत्रप्रभृति गोत्रम्
जीवति तु वंश्ये युवा
भ्रातरि च ज्यायसि
वा अन्यस्मिन् सपिण्डे स्थविरतरे जिवति
वृद्धस्य च पूजायाम्
यूनश् च कुत्सायाम्
जनपद-शब्दात् क्षत्रियाद् अञ्
साल्वेय-गान्धारिभ्यां च
द्व्य्-अञ्-मगध-कलिङ्ग्-असूरमसाद् अण्
वृद्ध-इत्-कोसल-अजादाञ् ञ्यङ्
कुरु-नादिभ्यो ण्यः
साल्वावयव-प्रत्यग्रथ-कलकूट-अश्मकाद् इञ्
ते तद्राजाः
कम्बोजाल् लुक्
स्त्रियाम् अवन्ति-कुन्ति-कुरुभ्यश् च
अतश् च
न प्राच्य-भर्ग-आदि-यौधेय-आदिभ्यः
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0