अष्टाध्यायी · अध्याय 3.4
धातु-सम्बन्धे प्रत्ययाः
क्रियासम्-अभिहारे लोट् लोटो हि-स्वौ वा च त-ध्वमोः
सयुच्चये ऽन्यतरस्याम्
यथाविध्य्-अनुप्रयोगः पूर्वस्मिन्
समुच्चये सामान्य-वचनस्य
छन्दसि लुङ्-लङ्-लिटः
लिङ्-अर्थे लेट्
उपसंवाद-आशङ्कयोश् च
तुमर्थे से-सेन्-असे-असेन्-क्षे-कसेन्-अध्यै-अध्यैन्-कध्यै-कध्यैन्-शध्यै-शध्यैन्-तवै-तवेङ्-तवेनः
प्रयै रोहिष्यै अव्यथिष्यै
दृशे विख्ये च
शकि णमुल्कमुलौ
ईश्वरे तोसुन्-कसुनौ
कृत्य-अर्थे तवै-केन्-केन्य-त्वनः
अवचक्षे च
भावल्-अक्षने स्था-इण्-कृञ्-वदि-चरि-हु-तमि-जनिभ्यस् तोसुन्
सृपि-तृदोः कसुन्
अलं-खल्वोः प्रतिषेधयोः प्राचां क्त्वा
उदीचां माङो व्यतीहारे
पर-अवर-योगे च
समान-कर्तुऋकयोः पूर्वकाले
आभीक्ष्ण्ये णमुल् च
न यद्य् अनाकाङ्क्षे
विभाषा ऽग्रे प्रथम-पूर्वेषु
कर्मण्य् आक्रोशे कृञः खमुञ्
स्वादुमि णमुल्
अन्यथा-एवं-कथम्-इत्थंसु सिद्ध-अप्रयोगश्-चेत्
यथा-तथयोर् असूया-प्रतिवचने
कर्मणि दृशि-विदोः साकल्ये
यावति विन्द-जीवोः
चर्म-उदरयोः पूरेः
वर्ष-प्रमाण ऊलोपश् च अस्य अन्यत्रस्याम्
चेले क्नोपेः
निमूल-समूलयोः कषः
शुष्क-चूर्ण-रूक्षेषु पिषः
समूल-अकृत-जीवेषु हन्-कृञ्-ग्रहः
करणे हनः
स्नेहने पिषः
हस्ते वर्ति-ग्रहोः
स्वे पुषः
अधिकरणे वन्धः
सञ्ज्ञायाम्
कर्तोर् जीव-पुरुषयोर् नशि-वहोः
ऊर्ध्वे शुषि-पूरोः
उपमाने कर्मणि च
कषादिषु यथाविध्य्-अनुप्रयोगः
उपदंशस् तृतीयायाम्
हिंसा-अर्थानां च समानकर्मकाणाम्
सप्तम्यां च+उपपीड-रुध-कर्षः
समासत्तौ
प्रमाणे च
अपादाने परीप्सायाम्
द्वितियायां च
स्वाङ्गे ऽध्रुवे
परिक्लश्यमाने च
विशि-पति-पदि-स्कन्दाम् व्याप्यमान-आसेव्यमानयोः
अस्यति-तृषोः क्रियान्तरे कालेषु
नाम्न्य्-आदिशि-ग्रहोः
अव्यये ऽयथाभिप्रेत-आख्याने कृञः क्त्वा-णमुलौ
तिर्यच्य् अपवर्गे
स्वाङ्गे तस्-प्रत्यये कृभ्वोः
ना-धा-अर्थप्रत्यये च्व्य्-अर्थे
तूष्णीमि भुवः
अन्वच्य् आनुलोम्ये
शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्त्य्-अर्थेषु तुमुन्
पर्याप्ति-वचनेष्व् अलम्-अर्थेषु
कर्तरि कृत्
भव्य-गेय-प्रवचनीय-उपस्थानीय-जन्य-आप्लाव्य-आपात्या वा
लः कर्मणि च भावे च अक्रमकेभ्यः
तयोर् एव कृत्य-क्त-खल्-अर्थाः
आदिकर्मणि क्तः कर्तरि च
गत्य्-अर्थ-अक्रमक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यश् च
दाश-गोघ्नौ सम्प्रदाने
भीम-आदयो ऽपादाने
ताभ्याम् अन्यत्र-उणादयः
क्तो ऽधिकरणे च ध्रौव्य-गति-प्रत्यवसान-अर्थेभ्यः
लस्य
तिप्-तस्-झि-सिप्-थस्-थ-मिब्-वस्-मस्-त-आतां-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्
टित आत्मनेपदानां टेरे
थासः से
लिटस् त-झयोर् एश्-इरेच्
प्रस्मैपदानां णल्-अतुस्-उस्-थल्-थुस्-अणल्-व-माः
विदो लटो वा
ब्रुवः पञ्चानाम् आदित आहो ब्रुवः
लोटो लङ्वत्
एर् उः
सेर् ह्य् अपिच् च
वा छन्दसि
मेर् निः
आम् एतः
स-वाभ्याम् वामौ
आड् उत्तमस्य पिच् च
एत ऐ
लेटो ऽड्-आटौ
आत ऐ
वा-एतो ऽन्यत्र
इतश् च लोपः परस्मैपदेसु
स उत्तमस्य
नित्यं डितः
इतश् च
तस्-थस्-थ-मिपाम् तां-तं-त-अमः
लिङः सीयुट्
यासुट् परस्मैपदेसु उदात्तो ङिच् च
किद् आशिसि
झस्य रन्
इटो ऽत्
सुट् तिथोः
झेर् जुसू
सिज्-अभ्यस्त-विदिभ्यश् च
आतः
लङः शाकटायनस्य+एव
द्विषश् च
तिङ्-शित्-सार्वधातुकम्
आर्धधातुकं शेषः
लिट् च
लिङ् आशिषि
छन्दस्य् उभयथा
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0