भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 3.3

3.3.1

उणादयो बहुलम्

3.3.2

भूते ऽपि दृश्यन्ते

3.3.3

भविष्यति गम्यादयः

3.3.4

यावत्-पुरा-निपातयोर् लट्

3.3.5

विभाषा कदा-कर्ह्योः

3.3.6

किंवृत्ते लिप्सायाम्

3.3.7

लिप्स्यमान-सिद्धौ च

3.3.8

लोड्-अर्थलक्षने च

3.3.9

लिङ् च+ऊर्ध्व-मौहूर्तिके

3.3.10

तुमुन्-ण्वुलौ क्रियायां क्रिय-अर्थायाम्

3.3.11

भाव-वचनाश् च

3.3.12

अण् कर्मणि च

3.3.13

लृट् शेषे च

3.3.14

लृटः सद्वा

3.3.15

अनद्यतने लुट्

3.3.16

पद-रुज-विश-स्पृशो घञ्

3.3.17

सृ स्थिरे

3.3.18

भावे

3.3.19

अकर्तरि च कारके सञ्ज्ञायाम्

3.3.20

परिमाण-आख्यायां सर्वेभ्यः

3.3.21

इङश् च

3.3.22

उपसर्गे रुवः

3.3.23

समि यु-द्रु-दुवः

3.3.24

श्रि-णी-भुवो ऽनुपसर्गे

3.3.25

वौ क्षु-श्रुवः

3.3.26

अव-उदोर् नियः

3.3.27

प्रे द्रु-स्तु-स्रुवः

3.3.28

निर्-अभ्योः पू-ल्वोः

3.3.29

उन्-न्योर् ग्रः

3.3.30

कॄ धान्ये

3.3.31

यज्ञे समि स्तुवः

3.3.32

प्रे स्त्रो ऽयज्ञे

3.3.33

प्रथने वाव् अशब्दे

3.3.34

छन्दोनाम्नि च

3.3.35

उदि ग्रहः

3.3.36

समि मुष्टौ

3.3.37

परि-न्योर् नी-णोर् द्यूत-अभ्रेषयोः

3.3.38

पराव् अनुपात्यय इणः

3.3.39

व्य्-उपयोः शेतेः पर्याये

3.3.40

हस्त-अदाने चेर् अस्तेये

3.3.41

निवास-चिति-शरीर-उपसमाधानेष्व् आदेश् च कः

3.3.42

सङ्घे च अनौत्तराधर्ये

3.3.43

कर्म-व्यतिहारे णच् स्त्रियाम्

3.3.44

अभिविधौ भावे इनुण्

3.3.45

आक्रोशे ऽवन्योर् ग्रहः

3.3.46

प्रे लिप्सायाम्

3.3.47

परौ यज्ञे

3.3.48

नौ वृ धान्ये

3.3.49

उदि श्रयति-यौति-पू-द्रुवः

3.3.50

विभाषा+आङि रु-प्लुवोः

3.3.51

अवे ग्रहो वर्ष-प्रतिबन्धे

3.3.52

प्रे वणिजाम्

3.3.53

रश्मौ च

3.3.54

वृणोतेर् आच्छादने

3.3.55

प्रौ भुवो ऽवज्ञाने

3.3.56

एर् अच्

3.3.57

ॠदोर् अप्

3.3.58

ग्रह-वृ-दृ-निश्चिगमश् च

3.3.59

उपसर्गे ऽदः

3.3.60

नौ ण च

3.3.61

व्यध-जपोर् अनुपसर्गे

3.3.62

स्वन-हसोर् वा

3.3.63

यमः सम्-उप-नि-विषु च

3.3.64

नौ गद-नद-पठ-स्वनः

3.3.65

क्वणो वीणायां च

3.3.66

नित्यं पणः परिमाणे

3.3.67

मदो ऽनुपसर्गे

3.3.68

प्रमद-सम्मदौ हर्षे

3.3.69

सम्-उदोर् अजः पशुषु

3.3.70

अक्षेषु ग्लहः

3.3.71

प्रजने सर्तेः

3.3.72

ह्वः सम्प्रसारणं च न्य्-अभ्य्-उप-विषु

3.3.73

आङि युद्धे

3.3.74

निपानम् आहावः

3.3.75

भावे ऽनुपसर्गस्य

3.3.76

हनश् च वधः

3.3.77

मूर्तौ घनः

3.3.78

अन्तर्घनो देशे

3.3.79

अगार-एकदेशे प्रघणः प्रघाणाश् च

3.3.80

उद्घनो ऽत्याधानम्

3.3.81

अपघनो ऽङ्गम्

3.3.82

करणे ऽयो-विद्रुषु

3.3.83

स्तम्बे क च

3.3.84

परौ घः

3.3.85

उपघ्न आश्रये

3.3.86

सङ्घ-उद्घौ गण-प्रशंसयोः

3.3.87

निघो निमितम्

3.3.88

ड्वितः क्त्रिः

3.3.89

ट्वितो ऽथुच्

3.3.90

यज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्

3.3.91

स्वपो नन्

3.3.92

उपसर्गे घोः किः

3.3.93

कर्मण्य् अधिकरणे च

3.3.94

स्त्रियां क्तिन्

3.3.95

स्था-गा-पापचो भावे

3.3.96

मन्त्रे वृष-इष-पच-मन-विद-भू-वी-रा उदात्तः

3.3.97

ऊति-यूति-जूति-साति-हेति-कीर्तयश् च

3.3.98

व्रज-यजोर् भावे क्यप्

3.3.99

सञ्ज्ञायां सम्-अज-निषद-निपत-मन-विद-षुञ्-शीङ्-भृञ्-इणः

3.3.100

कृञः श च

3.3.101

इच्च्या

3.3.102

अ प्रत्ययात्

3.3.103

गुरोश् च हलः

3.3.104

षिद्-भिदादिभ्यो ऽङ्

3.3.105

चिन्ति-पूजि-कथि-कुम्बि-चर्चश् च

3.3.106

आतश् च+उपसर्गे

3.3.107

ण्य्-आस-श्रन्थो युच्

3.3.108

रोग-आख्यायं ण्वुल् बहुलम्

3.3.109

सञ्ज्ञायाम्

3.3.110

विभा-आषख्यान-परिप्रश्नयोर् इञ् च

3.3.111

पर्याय-अर्ह-र्ण-उत्पत्तिषु ण्वुच्

3.3.112

आक्रोशे नञ्य् अतिः

3.3.113

कृत्य-ल्युटो बहुलम्

3.3.114

नपुंसके भावे क्तः

3.3.115

ल्युट् च

3.3.116

कर्मणि च येन संस्पर्शात् कर्तुः शरीर-सुखम्

3.3.117

करण-अधिकरणयोश् च

3.3.118

पुंसि सञ्ज्ञायां घः प्रायेण

3.3.119

गोचर-सञ्चर-वह-व्रज-व्यज-आपण-निगमाश् च

3.3.120

अवे तॄ-स्त्रोर् घञ्

3.3.121

हलश् च

3.3.122

अध्याय-न्याय-उद्याव-संहार-आधार-आवायाश् च

3.3.123

उदङ्को ऽनुदके

3.3.124

जालम् आनायः

3.3.125

खनो घ च

3.3.126

ईषद्-दुः-सुषु कृच्छ्र-अकृच्च्र-अर्थेषु खल्

3.3.127

कर्तृ-कर्मणोश् च भू-क्र्ञोः

3.3.128

आतो युच्

3.3.129

छन्दसि गत्य्-अर्थेभ्यः

3.3.130

अन्येभ्यो ऽपि दृश्यते

3.3.131

वर्तमान-सामीप्ये वर्तमानवद् वा

3.3.132

आशंसायां भूतवच् च

3.3.133

क्षिप्र-वचने लृट्

3.3.134

आशंसा-वचने लिङ्

3.3.135

न अनद्यतनवत् क्रियाप्रबन्ध-सामीप्ययोः

3.3.136

भविष्यति मर्यादा-वचने ऽवरस्मिन्

3.3.137

काल-विह्भागे च अनहोरात्राणाम्

3.3.138

परस्मिन् विभाषा

3.3.139

लिङ्-निमित्ते लृङ् क्रिया-अतिपत्तौ

3.3.140

भूते च

3.3.141

वा-ऊ-उत-अप्योः

3.3.142

गर्हायां लड्-अपि-जात्वोः

3.3.143

विभाष कथमि लिङ् च

3.3.144

किंवृत्ते लिङ्-लृटौ

3.3.145

अनवक्लृप्त्य्-अमर्षयोर् अकिंवृत्ते ऽपि

3.3.146

किंकिल-अस्त्य्-अर्थेषु लृट्

3.3.147

जातु-यदोर् लिङ्

3.3.148

यच्चयत्रयोः

3.3.149

गर्हायां च

3.3.150

चित्रीकरणे च

3.3.151

शेषे लृड्-अयदौ

3.3.152

उत-अप्योः समर्थयोर् लिङ्

3.3.153

काम-प्रवेदने ऽकच्चिति

3.3.154

सम्भावने ऽलम् इति चेत् सिद्ध-अप्रयोगे

3.3.155

विभाषा धातौ सम्भावन-वचने ऽयदि

3.3.156

हेतु-हेतुमतोर् लिङ्

3.3.157

इच्छा-अर्थेषु लिङ्-लोटौ

3.3.158

समान-कर्तृकेषु तुमुन्

3.3.159

लिङ् च

3.3.160

इच्छार्थेभ्यो विभाषा वर्तमाने

3.3.161

विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-संप्रश्न-प्रार्थनेषु लिङ्

3.3.162

लोट् च

3.3.163

प्रैष-अतिसर्ग-प्राप्तकालेषु कऋत्याश् च

3.3.164

लिङ् च+ऊर्ध्व-मौहूर्तिके

3.3.165

स्मे लोट्

3.3.166

अधीष्टे च

3.3.167

काल-समय-वेलासु तुमुन्

3.3.168

लिङ् यदि

3.3.169

अर्हे कृत्य-तृचश् च

3.3.170

आवश्यक-आधमर्ण्ययोर् णिनिः

3.3.171

कृत्याश् च

3.3.172

शकि लिङ् च

3.3.173

आशिषि लिङ् लोटौ

3.3.174

क्तिच्-क्तौ च सञ्ज्ञायाम्

3.3.175

माङि लुङ्

3.3.176

स्म-उत्तरे लङ् च

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc