भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 3.2

3.2.1

कर्मण्य् अण्

3.2.2

ह्वा-वा-अमश् च

3.2.3

आतो ऽनुपसर्गे कः

3.2.4

सुपि स्थः

3.2.5

तुन्द-शोकयोः परिमृज-अपनुदोः

3.2.6

प्रे दा-ज्ञः

3.2.7

समि ख्यः

3.2.8

गा-पोष् टक्

3.2.9

हरतेर् अनुद्यमने ऽच्

3.2.10

वयसि च

3.2.11

आङि ताच्छील्ये

3.2.12

अर्हः

3.2.13

स्तम्ब-कर्णयो रमि-जपोः

3.2.14

शमि धातोः सञ्ज्ञायाम्

3.2.15

अधिकरणे शेतेः

3.2.16

चरेष् टः

3.2.17

भिक्षा-सेना-आदायेषु च

3.2.18

पुरो ऽग्रतो ऽग्रेषु सर्तेः

3.2.19

पूर्वे कर्तरि

3.2.20

कृञो हेतु-ताच्छील्य-आनुलोम्येषु

3.2.21

दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदि-बहु-नान्दी-किं-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-सङ्ख्या-जङ्घा-बाह्व्-अहर्-यत्-तद्-धनुर्-अरुष्षु

3.2.22

कर्मणि भृतौ

3.2.23

न शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु

3.2.24

स्तम्ब-शकृतोर् इन्

3.2.25

हरतेर् दृति-नाथयोः पशौ

3.2.26

फलेग्रहिर्-आत्मम्भरिश् च

3.2.27

छन्दसि वन-सन-रक्षि-मथाम्

3.2.28

एजेः खश्

3.2.29

नासिका-स्तनयोर् ध्मा-धेटोः

3.2.30

नाडी-मुष्ट्योश् च

3.2.31

उदि कूले रुजि-वहोः

3.2.32

वह-अभ्रे लिहः

3.2.33

परिमाणे पचः

3.2.34

मित-नखे च

3.2.35

विध्व्-अरुषोस् तुदः

3.2.36

असूर्य-ललाटयोर् दृशि-तपोः

3.2.37

उग्रम्पश्य-इरम्मद-पाणिन्धमाश् च

3.2.38

प्रियवशे वदः खच्

3.2.39

द्विषत्-परयोस् तापेः

3.2.40

वाचि यमो व्रते

3.2.41

पूः-सर्वयोर् दारि-सहोः

3.2.42

सर्व-कूल-अभ्र-करीषेषु कषः

3.2.43

मेघ-र्ति-भयेषु कृञः

3.2.44

क्षेम-प्रिय-मद्रे ऽण् च

3.2.45

आशिते भुवः करण-भावयोः

3.2.46

सञ्ज्ञायां भृ-तॄ-वृ-जि-धारि-सहि-तपि-दमः

3.2.47

गमश् च

3.2.48

अन्त-अत्यन्त-अध्व-दूर-पार-सर्व-अनन्तेषु डः

3.2.49

आशिषि हनः

3.2.50

अपे क्लेश-तमसोः

3.2.51

कुमार-शीर्षयोर् णिनिः

3.2.52

लक्षणे जाया-पत्योष् टक्

3.2.53

अमनुष्यकर्तृके च

3.2.54

शक्तौ हस्ति कपाटयोः

3.2.55

पाणिघ-ताडघौ शिल्पिनि

3.2.56

आढ्य-सुभग-स्थूल-पलित-नग्न-अन्ध-प्रियेषु च्व्य्-अर्थेष्व् अच्वौ कृञः करणे ख्युन्

3.2.57

कर्तरि भुवः खिष्णुच्-खुकञौ

3.2.58

स्पृशो ऽनुदके क्विन्

3.2.59

ऋत्विग्-दधृक्-स्रग्-दिग्-उष्णिग्-अञ्चु-युजि-क्रुञ्चां च

3.2.60

त्यदादिषु दृशो ऽनालोचने कञ् च

3.2.61

सत्-सू-द्विष-द्रुह-दुह-युज-विद-भिदच्-छिद-जि-नी-राजाम् उअसर्गे ऽपि क्विप्

3.2.62

भजो ण्विः

3.2.63

छन्दसि सहः

3.2.64

वहश् च

3.2.65

कव्य-पुरीष-पुरीष्येषु ञ्युट्

3.2.66

हव्ये ऽनन्तःपादाम्

3.2.67

जन-सन-खन-क्रम-गमो विट्

3.2.68

अदो ऽनन्ने

3.2.69

क्रव्ये च

3.2.70

दुहः कब् घश् च

3.2.71

मन्त्रे श्वेत-वह-उक्थशस्-पुरोडाशो ण्विन्

3.2.72

अवे यजः

3.2.73

विज् उपे छन्दसि

3.2.74

आतो मनिन्-क्वनिब्-वनिपश् च

3.2.75

अन्येभ्यो ऽपि दृश्यन्ते

3.2.76

क्विप् च

3.2.77

स्थः क च

3.2.78

सुप्य् अजातौ णिनिस् ताच्छील्ये

3.2.79

कर्तर्य् उपमामे

3.2.80

व्रते

3.2.81

बहुलम् आभीक्ष्ण्ये

3.2.82

मनः

3.2.83

आत्ममाने खश् च

3.2.84

भूते

3.2.85

करणे यजः

3.2.86

करमणि हनः

3.2.87

ब्रह्म-भ्रूण-वृत्रेषु क्विप्

3.2.88

बहुलं छन्दसि

3.2.89

सु-कर्म-पाप-मन्त्र-पुण्येषु कृञः

3.2.90

सोमे सुञः

3.2.91

अग्नौ चेः

3.2.92

कर्मण्य्-अग्न्य्-आख्यायाम्

3.2.93

कर्मणि इनिर् विक्रियः

3.2.94

दृशेः क्वनिप्

3.2.95

राजनि युधिकृञः

3.2.96

सहे च

3.2.97

सप्तम्यां जनेर् डः

3.2.98

पञ्चम्याम् अजातौ

3.2.99

उपसर्गे च सञ्ज्ञायाम्

3.2.100

अनौ कर्मणि

3.2.101

अन्येष्व् अपि दृश्यते

3.2.102

निष्ठा

3.2.103

सु-यजोर् ङ्वनिप्

3.2.104

जीर्यतेर् अतृन्

3.2.105

छन्दसि लिट्

3.2.106

लिटः कानज् वा

3.2.107

क्वसुश् च

3.2.108

भाषायां सद-वस-श्रुवः

3.2.109

उपेयिवान् अनाश्वान् अनूचानश् च

3.2.110

लुङ्

3.2.111

अनद्यतने लङ्

3.2.112

अभिज्ञा-वचने लृट्

3.2.113

न यदि

3.2.114

विभाषा साकाङ्क्षे

3.2.115

परोक्षे लिट्

3.2.116

ह-शश्वतोर् लङ् च

3.2.117

प्रश्ने च आसन्न-कले

3.2.118

लट् स्मे

3.2.119

अपरोक्षे च

3.2.120

ननौ पृष्ट-प्रति-वचने

3.2.121

न-न्वोर् विभाषा

3.2.122

पुरि लुङ् च अस्मे

3.2.123

वर्तमाने लट्

3.2.124

लटः शतृ-शानचाव् अप्रथमा-समानाधिकरणे

3.2.125

सम्बोधने च

3.2.126

लक्षण-हेत्वोः क्रियायाः

3.2.127

तौ सत्

3.2.128

पूङ् यजोः शानन्

3.2.129

ताच्छीय-वयोवचन-शक्तिषु चानश्

3.2.130

इङ्-धार्योः शत्र-कृच्छ्रिणि

3.2.131

द्विषो ऽमित्रे

3.2.132

सुञो यज्ञसंयोगे

3.2.133

अर्हः प्रशंसायाम्

3.2.134

आ क्वेः तच्छील-तद्धर्म-तत्साधुकारिषु

3.2.135

तृन्

3.2.136

अलङ्-कृञ्-निराकृञ्-प्रजन-उत्पच-उत्पत-उन्मद-रुच्य्-अपत्रप-वृतु-वृधु-सह-चर इष्णुच्

3.2.137

णेश् छन्दसि

3.2.138

भुवश् च

3.2.139

ग्ला-जि-स्थश् च क्ष्नुः

3.2.140

त्रसि-गृधि-धृषि-क्षिपेः क्नुः

3.2.141

शम्-इत्य् अष्टाभ्यो घिनुण्

3.2.142

संपृच-अनुरुध-आङ्यम-आङ्यस-परिसृ-संसृज-परिदेवि-संज्वर-परिक्षिप-परिरट-परिवद-परिदह-परिमुह-दुष-द्विष-द्रुह-दुह-युज-आक्रीड-विविच-त्यज-रज-भज-अतिचर-अपचर-आमुष-अभ्याहनश् च

3.2.143

वौ कष-लस-कत्थ-स्रम्भः

3.2.144

अपे च लषः

3.2.145

प्रे लप-सृ-द्रु-मथ-वद-वसः

3.2.146

निन्द-हिंस-क्लिश-खाद-विनाश-परिक्षिप-परिरट-परिवादि-व्याभाष-असूयो वुञ्

3.2.147

देवि-क्रशोश् च+उपसर्गे

3.2.148

चलन-शब्दार्थाद् अकर्मकाद् युच्

3.2.149

अनुदात्त-इतश् च हलादेः

3.2.150

जु-चङ्क्रम्य-दन्द्रम्य-सृ-गृधि-ज्वल-शुच-लष-पत-पदः

3.2.151

क्रुध-मण्ड-अर्थेभ्यश् च

3.2.152

न यः

3.2.153

सूद-दीप-दीक्षश् च

3.2.154

लष-पत-पद-स्था-भू-वृष-हन-कम-गम-शॄभ्य उकञ्

3.2.155

जल्प-भिक्ष-कुट्ट-लुण्ट-वृङः षाकन्

3.2.156

प्रजोर् इनिः

3.2.157

जि-दृ-क्षि-विश्रि-इण्-वम-अव्यथ-अभ्यम-परिभू-प्रसूभ्यश् च

3.2.158

स्पृहि-गृहि-पति-दयि-निद्रा-दन्द्रा-श्रद्धाभ्य आलुच्

3.2.159

दा-धेट्-सि-शद-सदो रुः

3.2.160

सृ-घस्य्-अदः क्मरच्

3.2.161

भञ्ज-भास-मिदो घुरच्

3.2.162

विदि-भिदि-च्छिदेः कुरच्

3.2.163

इण्-नश्-जि-सर्तिभ्यः क्वरप्

3.2.164

गत्वरश् च

3.2.165

जागुर् ऊकः

3.2.166

यज-जप-दशां यङः

3.2.167

नमि-कम्पि-स्म्य्-अजस-कम-हिंस-दीपो रः

3.2.168

सन्-आशंस-भिक्ष उः

3.2.169

विन्दुर् इच्छुः

3.2.170

क्याच् छन्दसि

3.2.171

आद्-ऋ-गम-हन-जनः कि-किनौ लिट् च

3.2.172

स्वपितृषोर्नजिङ्

3.2.173

शॄ-वन्द्योर् आरुः

3.2.174

भियः क्रु-क्लुकनौ

3.2.175

स्था-ईश-भास-पिस-कसो वरच्

3.2.176

यश् च यङः

3.2.177

भ्राज-भास-धुर्वि-द्युत-उर्जि-पॄ-जुग्रावस्तुवः क्विप्

3.2.178

अन्येभ्यो ऽपि दृश्यते

3.2.179

भुवः सञ्ज्ञा-अन्तरयोः

3.2.180

वि-प्र-सम्भ्यो ड्व्-असञ्ज्ञायाम्

3.2.181

धः करम्णि ष्ट्रन्

3.2.182

दाम्-नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दश-नहः करणे

3.2.183

हल-सूकरयोः पुवः

3.2.184

अर्ति-लू-धू-सू-खन-सह-चर इत्रः

3.2.185

पुवः सञ्ज्ञायाम्

3.2.186

कर्तरि चर्षिदेवतयोः

3.2.187

ञीतः क्तः

3.2.188

मति-बुद्धि-पूजा-अर्थेभ्यश् च

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc