अष्टाध्यायी · अध्याय 3.1
प्रत्ययः
परश् च
आद्य्-उदात्तश् च
अनुदात्तौ सुप्-पितौ
गुप्-तिज्-किद्भ्यः सन्
मान्-बध-दान्-शान्भ्यो दीर्घश् च अभ्यासस्य
धातोः कर्मणः समान-कर्तृकाद् इच्छायां वा
सुप आत्मनः क्यच्
काम्यच् च
उपमानाद् आचारे
कर्तुः क्यङ् सलोपश् च
भृशादिभ्यो भुव्य्-अच्वेर् लोपश् च हलः
लोहितादि-डाज्भ्यः क्यष्
कष्टाय क्रमणे
कर्मणो रोमन्थ-तपोभ्यां वर्ति-चरोः
बाष्प-ऊष्मभ्याम् उद्वमने
शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्यः करणे
सुखादिभ्यः कर्तृ-वेदनायाम्
नमो-वरिवश्-चित्रङः क्यच्
पुच्छ-भान्ड-चीवराण् णिङ्
मुण्ड-मिश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यो णिच्
धातोर् एक-अचो हल-आदेः क्रियासमभिहारे यङ्
नित्यं कौटिल्ये गतौ
लुप-सद-चर-जप-जभ-दह-दश-गॄभ्यो भाव-गर्हायाम्
सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्
हेतुमति च
कण्ड्व्-आदिभ्यो यक्
गुपू-धूप-विच्छि-पणि-पनिभ्य आयः
ऋतेर् ईयङ्
कमेर् णिङ्
आयादय आर्धधातुके वा
सन्-आद्यन्ता धातवः
स्यतासी ल्̥लुटोः
सिब्-बहुलं लेति
कास्-प्रत्ययाद् आम् अमन्त्रे लिटि
इज्-आदेश् च गुरुमतो ऽनृच्छः
दय-अय-आसश् च
उष-विद-जागृभ्यो ऽन्यतरस्याम्
भी-ह्री-भृ-हुवां श्लुवच् च
कृञ् च अनुप्रयुज्यते लिटि
विदाङ्-कुर्वन्त्व् इत्य् अन्यतरस्याम्
अभ्युत्सादयां-प्रजनयाम्-चिकयां-रमयाम्-अकः पावयाम्-क्रियाद् विदाम्-अक्रन्न् इति च्छन्दसि
च्लि लुडि
च्लेः सिच्
शल इग्-उपधाद् अनिटः क्षः
श्लिष आलिङ्गने
न दृशः
णि-श्रि-द्रु-स्रुभ्यः कर्तरि चङ्
विभाषा धेट्-श्व्योः
गुपेश् छन्दसि
न-उनयति-ध्वनयत्य्-एलयत्य्-अर्दयतिभ्यः
अस्यति-वक्ति-ख्यातिभ्यो ऽङ्
लिपि-सिचि-ह्वश् च
आत्मनेपदेष्व् अन्यतरस्याम्
पुषादि-द्युताद्य्-ल्̥दितः प्रस्मैपदेषु
सर्ति-शास्त्य्-अर्तिभ्यश् च
इरितो वा
जॄ-स्तम्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यश् च
कृ-मृ-दृ-रुहिभ्यश् छन्दसि
चिण् ते पदः
दीप-जन-बुध-पूरि-तायि-प्यायिभ्यो ऽन्यतरस्याम्
अचः कर्मकर्तरि
दुहश् च
न रुधः
तपो ऽनुतापे च
चिण् भावकर्मणोः
सार्वधातुके यक्
कर्तरि शप्
दिव्-आदिभ्यः श्यन्
वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुति-लषः
यसो ऽनुपसर्गात्
संयसश् च
स्व्-आदिभ्यः श्नुः
श्रुवः शृ च
अक्षो ऽन्यतरस्याम्
तनू-करणे तक्षः
तुद्-आदिभ्यः शः
रुद्ः-आदिभ्यः श्नम्
तन्-आदि-कृञ्भ्यः उः
धिन्वि-कृण्व्योर् अ च
क्र्य्-आदिभ्यः श्ना
स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः श्नुश् च
हलः श्नः शानज्ज्ञौ
छन्दसि शायज् अपि
व्यत्ययो बहुलम्
लिङ्य् आशिष्य् अङ्
कर्मवत् कर्मणा तुल्यक्रियः
तपस् तपः-कर्मकस्य+एव
न दुह-स्नु-नमां यक्-चिणौ
कुषि-रजोः प्राचां श्यन् परस्मैपदं च
धातोः
तत्र+उपपदं सप्तमीस्थम्
कृद् अतिङ्
वा ऽसरूपो ऽस्त्रियाम्
कृत्याः प्रग्ण् वुलः
तव्यत्-तव्य-अनीयरः
अचो यत्
पोर् अद्-उपधात्
शकि-सहोश् च
गद-मद-चर-यमश् च अनुपसर्गे
अवद्य-पण्य-वर्या गर्ह्य-पणितव्य-अनिरोधेषु
वह्यं करणम्
अर्यः स्वमि-वैश्ययोः
उपसर्या काल्या प्रजने
अजर्यं सङ्गतम्
वदः सुपि क्यप् च
भुवो भावे
हनस् त च
एति-स्तु-शास्-वृ-दृ-जुषः क्यप्
ऋद् उपधाच् च अक्ल्̥पि-चृतेः
ई च खनः
भृञो ऽसञ्ज्ञायाम्
मृजेर् विभाषा
राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्यथ्याः
भिद्य-उद्ध्यौ नदे
पुष्य-सिद्ध्यौ नक्षत्रे
विपूय-विनीय-जित्या मुङ्ज-कल्क-हलिषु
प्रत्य्-अपिभ्यां ग्रहेश् छन्दसि
पद-अस्वैरि-बाह्या-पक्ष्येषु च
विभाषा कृ-वृषोः
युग्यं च पत्रे
अमावस्यद्-अन्यतरस्याम्
छन्दसि निष्टर्क्य-देवहूय-प्रणीय-उन्नीय-उच्छिष्य-मर्य-स्तर्य-ध्वर्य-खन्य-खान्य-देवयज्या-आपृच्छ्य-प्रतिषीव्य-ब्रह्मवाद्य-भाव्य-स्ताव्य-उपचाय्यपृडानि
ऋ-हलोर् ण्यत्
ओर् आवश्यके
आसु-यु-वपि-रपि-लपि-त्रपि-चमश् च
आनाय्यो ऽनित्ये
प्रणाय्यो ऽसम्मतौ
पाय्य-सान्-नाय्य-निकाय्य-धाय्या मान-हविर्-निवास-सामिधेनीषु
क्रतौ कुण्डपाय्य-सञ्चाय्यौ
अग्नौ परिचाय्य-उपचाय्य-समूह्याः
चित्य-अग्निचित्ये च
ण्वुल्-तृचौ
नन्दि-ग्रहि-पचादिभ्यो ल्यु-णिन्य्-अचः
इगुपध-ज्ञा-प्री-किरः कः
आतश् च+उपसर्गे
पा-घ्रा-ध्मा-धेट्-दृशः शः
अनुपसर्गाल् लिम्प-विन्द-धारि-पारि-वेद्य्-उदेजि-चेति-साति-साहिभ्यश् च
ददाति-दधात्योर् विभाषा
ज्वलिति-कसन्तेभ्यो णः
श्या-आद्-व्यध-आस्रु-संस्र्व्-अतीण्-अवसा-अवहृ-लिह-श्लिष-श्वसश् च
दु-न्योर् अनुपसर्गे
विभाशा ग्रहः
गेहे कः
शिल्पिनि ष्वुन्
गस्थकन्
ण्युट् च
हश् च व्रीहि-कालयोः
प्रु-सृ-ल्वः समभिहारे वुन्
आशिषि च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0