अष्टाध्यायी · अध्याय 2.4
द्विगुर् एकवचनम्
द्वन्द्वश् च प्राणि-तूर्य-सेना-अङ्गानाम्
अनुवादे चरणानाम्
अध्वर्यु-क्रतुर् अनपुंसकम्
अध्ययनतो ऽविप्रकृष्ट-आख्यानाम्
जातिर् अप्राणिनाम्
विशिष्ट-लिङ्गो नदी देशो ऽग्रामाः
क्षुद्र-जन्तवः
येषां च विरोधः शाश्वतिकः
शूद्राणाम् अनिरवसितानाम्
गवाश्व-प्रभृतीनि च
विभाषा वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुन्य्-अश्ववडव-पूर्वापर-अधरोत्तराणाम्
विप्रतिषिद्धं च अनधिकरण-वाचि
न दधिपय-आदीनि
अधिकरन-एतावत्त्वे च
विभाषा समीपे
स नपुंसकम्
अव्ययीभावश् च
तत्पुरुषो ऽनञ्-कर्मधारयः
सञ्ज्ञायां कन्ता-उशीनरेषु
उपज्ञा-उपक्रमम् तद्-आद्य्-आचिख्यासायाम्
छाया बाहुल्ये
सभा राजा ऽमनुस्य-पूर्वा
अशाला च
विभाषा सेना-सुरा-च्छाया-शाला-निशानाम्
परवल्-लिङ्गं द्वन्द्व-तत्पुरुषयोः
पूर्ववद्-अश्वव-डवौ
हेमन्त-शिशिराव् अहो-रात्रे च छन्दसि
रात्र-अह्न-अहाः पुंसि
अपथं नपुंसकम्
अर्धर्चाः पुंसि च
इदमो ऽन्वादेशे ऽश् अनुदात्तस् तृतीया-आदौ
एतदस् त्र-तसोस् त्र-तसौ च अनुदातौ
द्वितीया-टा-ओस्स्व् एनः
आर्धधातुके
अदो जग्धिर् ल्यप् ति किति
लुङ्-सनोर् घस्ल्̥
घञ्-अपोश् च
बहुलं छन्दसि
लिट्य् अन्तरस्याम्
वेञो वयिः
हनो वध लिङि
लुङि च
आत्मनेपदेष्व् अन्यतरस्याम्
इणो गा लुङि
णौ गमिर् अबोधने
सनि च
इङश् च
गाङ् लिटि
विभाषा लुङ्ल्̥ङोः
णौ च संश्-चङोः
अस्तेर् भूः
ब्रुवो बचिः
चक्षिङः ख्याञ्
वा लिटि
अजेर् व्य् अघञ्-अपोः
वा यौ
ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग् अण्-इञोः
पैल-आदिब्यश् च
इञः प्राचाम्
न तौल्वलिभ्यः
तद्राजस्य बहुषु तेन+एव अस्त्रियाम्
यस्क-आदिभ्यो गोत्रे
यञ्-अञोश् च
अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यश् च
बह्वच् इञः प्राच्य-भ्रतेषु
न गोपवन-आदिभ्यः
तिक-कितव-आदिभ्यो द्वन्द्वे
उपक-आदिभ्यो ऽन्यतरस्याम् अद्वन्द्वे
आगस्त्य-कौण्डिन्ययोर् अगस्ति-कुण्डिनच्
सुपो धातु-प्रातिपदिकयोः
अदिप्रभृतिभ्यः शपः
बहुलं छन्दसि
यङो ऽचि च
जुहोत्य्-आदिभ्यः श्लुः
बहुलं छन्दसि
गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु
विभाषा घ्रा-धेट्-शाच्-छा-सः
तन्-आदिभ्यस् त-थासोः
मन्त्रे घस-ह्वर-नश-वृ-दह-आद्-वृच्-कृ-गमि-जनिभ्यो लेः
आमः
अव्ययाद् आप्-सुपः
न अव्ययीभावाद् अतो ऽम् त्व् अपञ्चम्याः
तृतीया-सप्तम्योर् बहुलम्
लुटः प्रथमस्य डारौरसः
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0