अष्टाध्यायी · अध्याय 2.1
समर्थः पदविधिः
सुब् आमन्त्रिते पर-अङ्गवत् स्वरे
प्राक् कडारात् समासः
सह सुपा
अव्ययीभवः
अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य्-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तव्चनेषु
यथा ऽसादृश्ये
यावद् अवधारणे
सुप् प्रैत्ना मात्रा-अर्थे
अक्ष-शलाका-सङ्ख्याः परिणा
विभाषा
अप-परि-बहिर् अञ्चवः पञ्चम्या
आङ् मर्यादा-अभिविध्योः
लक्षणेन अभिप्रती आभिमुख्ये
अनुर् यत्-समया
यस्य च आयामः
तिष्ठद्गु-प्रभृतीनि च
पारे मध्ये षष्ठ्या वा
सङ्ख्या वंश्येन
नदीभिश् च
अन्यपदर्थे च सञ्ज्ञायाम्
तत्पुरुषः
द्विगुश् च
द्विदीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपनैः
स्वयं क्तेन
खट्वा क्षेपे
सामि
कालाः
अत्यन्तसंयोगे च
तृतीया तत्कृत-अर्थेन गुणवचनेन
पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः
कर्तृकर्णे दृता बहुलम्
कृत्यैर् अधिक-आर्थ-वचने
अन्नेन व्यञ्जनम्
भक्ष्येण मिश्रीकरनम्
चतुर्थी तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः
पञ्चमी भयेन
अपेत-अपोढ-मुक्त-पतित-अपत्रस्तैर् अल्पशः
स्तोक-अन्तिक-दूर-अर्थ-कृच्छ्राणि क्तेन
सप्तमी शौण्डैः
सिद्ध-शुष्क-पक्व-बन्धैश् च
ध्वाङ्क्षेन क्षेपे
क्र्त्यैर् ऋणे
सञ्ज्ञायाम्
क्तेन अहो-रात्र-अवयवाः
तत्र
क्षेपे
पात्रेसमित-आदयश् च
पूर्वकाल-एक-सर्व-जरत्-पुराणा-नव-केवलाः समानाधिकरणेन
दिक्-सङ्ख्ये सञ्ज्ञायाम्
तद्धितर्थ-उत्तरपद-समाहारे च
सङ्ख्या-पूर्वो द्विगुः
कुत्सितानि कुत्सनैः
पापाणके कुत्सितैः
उपमानानि सामान्य-वचनैः
उपमितं व्याघ्र-आदिभिः सामान्य-अप्रयोगे
विशेसनं विशेष्येण बहुलम्
पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराश् च
श्रेण्य्-आदयः कृत-आदिभिः
क्तेन नञ्-विशिष्टेन अनञ्
सन्-महत्-परम-उत्तम-उत्कृष्टाः पूज्यमानैः
वृन्दरक-नाग-कुञ्जरैः पूज्यमानम्
कतर-कतमौ जातिपरिप्रश्ने
किं क्षेपे
पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणी-प्रवक्तृ-श्रोत्रिय-अध्यापक-धूर्तैर् जातिः
प्रशंसा-वचनैश् च
युवा खलति-पालित-वलिन-जरतीभिः
कृत्य-तुल्य-आख्या अजात्या
वर्णो वर्णेन
कुमारः श्रमणा-आदिभिः
चतुष्पादो गर्भिण्या
मयूर-व्यंसक-आदयश् च
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0