अष्टाध्यायी · अध्याय 2.2
पूर्व-अपर-अधर-उत्तरम् एकदेशिना-एकाधिकरणे
अर्धं नपुंसकम्
द्वितिय-तृतीय-चतुर्थ-तुर्याण्य् अन्य्तरस्याम्
प्राप्तापन्ने च द्वितीयया
कालाः परिमाणिना
नञ्
ईषदकृता
षष्ठी
याजक-आदिभिश् च
न निर्धारणे
पूरण-गुण-सुहितार्थ-सद्-अव्यय-तव्य-समानाधिकरनेन
क्तेन् अ च पूजायाम्
अधिकरण-वाचिना च
कर्मणि च
तृज्-अकाभ्यां कर्तरि
कर्तरि च
नित्यं क्रीडा-जीविकयोः
कु-गति-प्र-आदयः
उपपदम् अतिङ्
अमा-एव अव्ययेन
तृतीया-प्रभृतीन्यतरस्यम्
क्त्वा च
शेषो बहुव्रीहिः
अनेकम् अन्यपदार्थे
सङ्ख्यया ऽव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः सङ्ख्येये
दिङ्नामान्य् अन्तराले
तत्र तेन+इदम् इति सरूपे
तेन सह+इति तुल्ययोगे
च-अर्थे द्वन्द्वः
उपसर्जनं पूर्वम्
राजदन्त-आदिषु परम्
द्वन्द्वे घि
अज्-आद्य्-अद्-अन्तम्
अल्प-अच्-तरम्
सप्तमी-विशेषने बहुव्रीहौ
निष्ठा
वा+आहित-अग्न्य्-आदिषु
कडाराः कर्मधारये
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0