भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 81-100

81

आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव

82

आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः

83

आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव

84

आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।
सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति

85

आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।
स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव

86

आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।
इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु

87

आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।
स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः

88

आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन

89

आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम्

90

आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा

91

आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।
एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ

92

आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।
उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम्

93

आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।
शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः

94

आम्राङ्कुरो ऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।
नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति

95

आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।
कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव

96

आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।
स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग

97

आस्वादितो ऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।
मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि

98

आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।
धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव

99

आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।
वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु

100

आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।
त्वाम् अपसार्य विभाज्यः कुरङ्ग एषो ऽधुनैवान्यैः

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc