भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 61-80

61

अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम्

62

अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।
आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम्

63

अतिरभसेन भुजो ऽयं वृति-विवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन

64

अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।
चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि

65

अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।
उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति

66

अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टो ऽपि निःसरति

67

अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति

68

अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।
ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता

69

अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु

70

असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये

71

अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।
शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति

72

अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।
निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव

73

अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।
रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः

74

इति विभाव्याख्या-समेता अ-कार-व्रज्या ॥
आ-कार-व्रज्या
आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।
असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद

75

आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।
छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति

76

आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।
इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि

77

आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम

78

आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।
निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः

79

आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघव-दोषो ऽयं सौध-पताकेव यच् चलसि

80

आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।
ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc