आर्यासप्तशती · श्लोक 101-120
आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।
उपकलम् अगो ऽपि कोमल-कलम् आवलिक-वलनोत्तरलः
आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतो ऽप्य् आह ।
निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव
आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।
न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद
आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।
अप्राप्त-पारिजाता दैवे दोषं निवेशयति
आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।
शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः
आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।
गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा
इति विभाव्याख्या-समेता आ-कार-व्रज्या ॥
इ-कार-व्रज्या
इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा
इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।
गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन
इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे ।
पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन
इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।
भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति
इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि ।
तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम्
इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते
इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी ।
देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति
इति विभाव्याख्या-समेता इ-कार-व्रज्या ॥
ई-कार-व्रज्या
ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः ।
च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि
ईश्वर-परिग्रहोचित-मोहो ऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम्
ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः ।
नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी
इति विभाव्याख्या-समेता ई-कार-व्रज्या ॥
उ-कार-व्रज्या
उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चल-भावम् आनीताः
उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।
एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु
उल्लसित-लाञ्छनो ऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति ।
आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः
उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।
अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0