आर्यासप्तशती · श्लोक 664-683
सत्यं पतिर् अविदग्धः सा तु स्व-धियैव निधुवने निपुणा ।
मार्त्तिकम् आधाय गुरुं धनुर् अधिगतम् एकलव्येन
सौभाग्य-मानवान् स त्वयावधीर्यापमानम् आनीतः ।
स्वं विरह-पाण्डिमानं भस्म-स्नानोपमं तनुते
सखि मम करञ्ज-तैलं बहु-सन्देशं प्रहेष्यसीत्य् उदिता ।
श्वशुर-गृह-गमन-मिलितं बाष्प-जलं संवृणोत्य् असती
सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततम् अविकल्पे ।
मौलिमणिदीप-कलिका वर्ति-निभा भोगिनो ऽध्वानम्
सर्वं वनं तृणाल्या पिहितं पीताः सितांशु-रवि-ताराः ।
प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन
सम्यग् अनिष्पन्नः सन् यो ऽर्थस् त्वरया स्वयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनता-तनूज इव
सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा ।
न विदूर-दर्शनतया कैश्चिद् उपादीयते गृध्रः
सुभगं वदति जनस् तं निज-पतिर् इति नैष रोचते मह्यम् ।
पीयूषेऽपि हि भेषज-भावोपनते भवत्य् अरुचिः
सौध-गवाक्ष-गतापि हि दृष्टिस् तं स्थिति-कृत-प्रयत्नम् अपि ।
हिम-गिरि-शिखर-स्खलिता गङ्गेवैरावतं हरति
सह-घर्म-चारिणी मम परिच्छदः सुतनु नेह सन्देहः ।
न तु सुखयति तुहिन-दिन-च्छत्र-च्छायेव सज्जन्ती
सकल-गुणैक-निकेतन दानव-वासेन घरणिरुहराजः ।
जातो ऽसि भूतले त्वं सताम् अनादेय-फल-कुसुमः
सुन्दरि ताटङ्कमयं चक्रम् इवोद्वहति तावके कर्णे ।
निपतति निकाम-तीक्ष्णं कटाक्ष-बाणो ऽर्जुन-प्रणयी
स्वाधीनैव फल-र्द्धिर् जनोपजीव्यत्वम् उच्छ्रय-च्छाया ।
सत्-पुंसो मरु-भूरुह इव जीवन-मात्रम् आशास्यम्
सन्ताप-मोह-कम्पान् सम्पादयितुं निहन्तुम् अपि जन्तून् ।
सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव
सुखयिततरां न रक्षति परिचय-लेशं गणाङ्गनेव श्रीः ।
कुक-कामिनीव नोज्झति वाग्-देवी जन्म-जन्मापि
स्व-सदन-निकटे नलिनीम् अभिनव-जात-च्छदां निरीक्ष्यैव ।
हा गृहिणीति प्रलपंश् चिरागतः सखि पतिः पतितः
सचि चतुरानन-भावाद् वैमुख्यं क्वापि नैव दर्शयति ।
अयम् एक-हृदय एव द्रुहिण इव प्रियतमस् तद् अपि
सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।
स तु वेद न द्वितीयाम् अकलङ्कः प्रतिपद्-इन्दुर् इव
स्व-स्थानाद् अपि विचलति मज्जति जलधौ च नीचम् अपि भजते ।
निज-पक्ष-रक्षण-मनाः सुजनो मैनाक-शैल इव
संवृणु बाष्प-जलं सखि दृशम् उपरज्याञ्जनेन वलयैनाम् ।
दयितः पश्यतु पल्लव-पङ्कजयोर् युगपद् एव रुचम्
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0