आर्यासप्तशती · श्लोक 644-663
सर्वंसहां महीम् इव विधाय तां बाष्प-वारिभिः पूर्णाम् ।
भवनान्तर-मयम् अधुना सङ्क्रान्तस् ते गुरुः प्रेमा
सम्भवति न खलु रक्षा सरसानां प्रकृति-चपल-चरितानाम् ।
अनुभवति हर-शिरस्य् अपि भुजङ्ग-परिशीलनं गङ्गा
सुलभेषु कमल-केसर-केतक-माकन्द-कुन्द-कुसुमेषु ।
वाञ्छति मनोरथान्धा मधुपी स्मर-धनुषि गुणी-भावम्
सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।
बालायाः पीडायां निदानिते जागरे वैद्यैः
सुचिरागतस्य संवाहन-च्छलेनाङ्गम् अङ्गम् आलिङ्ग्य ।
पुष्यति च मान-चर्चां गृहिणी सफलयैत् चोत्कलिकाम्
सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।
वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव
सायं कान्त-भुजान्तर-पतिता रति-नीत-सकल-रजनीका ।
उषसि ददती प्रदीपं सखीभिर् उपहस्यते बाला
सा तीक्ष्ण-मान-दहना महतः स्नेहस्य दुर्लभः पाकः ।
त्वां दर्वीम् इव दूति प्रयासयन्न् अस्मि विश्वस्तः
स्नेह-क्षतिर् जिगीषा समरः प्राण-व्ययावधिः करिणाम् ।
न वितनुते कम् अनर्थं दन्तिनि तव यौवनोद्भटः
सदनाद् अपैति दयितो हसति सखी विशति घरणिम् इव बाला ।
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति
सङ्कुचिताङ्गीं द्विगुणांशुकां मनो-मात्र-विस्फुरन्-मदनाम् ।
दयितां भजामि मुग्धाम् इव तुहिन तव प्रसादेन
सखि लग्नैव वसन्ती सदाशये महति रस-मये तस्य ।
बाडव-शिखेव सिन्धोर् न मनाग् अप्य् आर्द्रतां भजसि
सखि मिहिरोद्गमनादि-प्रमोदम् अपिधाय सो ऽयम् अवसाने ।
बन्ध्यो ऽवधि-वासर इव तुषार-दिवसः कदर्थयति
सुर-भवने तरुणाभ्यां परस्पराकृष्ट-दृष्टि-हृदयाभ्याम् ।
देवार्चनार्थम् उद्यतम् अन्योन्यस्यार्पितं कुसुमम्
सायं कुशेशयान्तर्-मधुपानां निर्यतां नादः ।
मित्र-व्यसन-विषण्णैः कमलैर् आक्रन्द इव मुक्तः
सुमहति मन्यु-निमित्ते मयैव विहितेऽपि वेपमानोरुः ।
न सखीनाम् अपि रुदती ममैव वक्षः-स्थले पतिता
सुभग व्यजन-विचालन-शिथिल-भुजाभूद् इयं वयस्यापि ।
उद्वर्तनं न सख्याः समाप्यते किञ्चिद् अपगच्छ
स-व्रीडा नख-रदनार्पणेषु कुपिता प्रगाढम् अचिरोढा ।
बहु-याच्ञा-चरण-ग्रह-साध्या रोषेण जातेयम्
सुगृहीत-मलिन-पक्षा लघवः पर-भेदिनः परं तीक्ष्णाः ।
पुरुषा अपि विशिखा अपि गुण-च्युताः कस्य न भयाय
स्व-कपोलेन प्रकटीकृतं प्रमत्तत्व-कारणं किम् अपि ।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानम् अपि
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0