भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 684-702

684

सा पाण्डु-दुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।
कठिनीव कैतव-विदो हस्त-ग्रह-मात्र-साध्या ते

685

सखि विश्व-गञ्जनीया लक्ष्मीर् इव कमल-मुखि कदर्यस्य ।
त्वं प्रवयसो ऽस्य रक्षा-वीक्षण-मात्रोपयोग्यासि

686

इति विभाव्याख्या-समेता स-कार-व्रज्या ।
ह-कार-व्रज्या
हृदयज्ञया गवाक्षे विसदृक्षं किम् अपि कूजितं सख्या ।
यत् कलह-भिन्न-तल्पा भय-कपटाद् एति मां सुतनु

687

हरति हृदयं शलाका-निहितो ऽञ्जन-तन्तुर् एष सखि मुग्धे ।
लोचन-बाण-मुचान्तर्-भ्रूधनुषा किण इवोल्लिखितः

688

हससि चरण-प्रहारे तल्पाद् अपसारितो भुवि स्वपिषि ।
नासदृशेऽपि कृते प्रिय मम हृदयात् त्वं विनिःसरसि

689

हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
स्वप्नायितेन तस्यां सुभग त्वन्-नाम जल्पन्त्याम्

690

हृदयं मम प्रतिक्षण-विहितावृत्तिः सखे प्रियाशोकः ।
प्रबलो विदारयिष्यति जल-कलशं नीर-लेखेव

691

हन्त विरहः समन्ताज् ज्वलयति दुर्वार-तीव्र-संवेगः ।
अरुणस् तपन-शिलाम् इव पुनर् न मां भस्मतां नयति

692

हृत्वा तटिनि तरङ्गैर् भ्रमितश् चक्रेषु नाशये निहितः ।
फल-दल-वल्कल-रहितस् त्वयान्तरिक्षे तरुस् त्यक्तः

693

हृत-काञ्चि-वल्लि-बन्धोत्तर-जघनाद् अपर-भोग-भुक्तायाः ।
उल्लसति रोम-राजिः स्तन-शम्भोर् गरल-लेखेव

694

इति विभाव्याख्या-समेता ह-कार-व्रज्या ।
क्ष-कार-व्रज्या
क्षीरस्य तु दयितत्वं यतो ऽपि शान्तोपचारम् आसाद्य ।
शैलो ऽङ्गान्य् आनमयति प्रेम्णः शेषो ज्वरस्येव

695

क्षान्तम् अपसारितो यच् चरणाव् उपधाय सुप्त एवासि ।
उद्घाटयसि किम् ऊरु निःश्वासैः पुलकयन्न् उष्णैः

696

क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच् छतश् च मदम् उच्चैः ।
मधुनो लघु-पुरुषस्य च गरिमा लघिमा च भेदाय

697

पूर्वैर् विभिन्न-वृत्तां गुणाढ्य-भव-भूति-बाण-रघुकारैः ।
वाग्-देवीं भजतो मम सन्तः पश्यन्तु को दोषः

698

सत्-पात्रोपनयोचित-सत्-प्रतिबिम्बाभिनव-वस्तु ।
कस्य न जनयति हर्षं सत्-काव्यं मधुर-वचनं च

699

एका ध्वैन्-द्वितीया तिर्भुवन-सारा स्फुटोक्ति-चातुर्या ।
पञ्चेषु-षट्पद-हिता भूषा श्रवणस्य सप्त-शती

700

कवि-समर-सिंह-नादः स्वरानुवादः सुधैक-संवादः ।
विद्वद्-विनोद-कन्दः सन्दर्भो ऽयं मया सृष्टः

701

।
उदयन-बलभद्राभ्यां सप्तशती शिष्य-सोदराभ्यां मे ।
द्यौर् इव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य

702

हरि-चरणाञ्जलिम् अलं कवि-वर-हर्षाय बुद्धिमान् सततम् ।
कृतार्या-सप्त-शतीम् एतां गोवर्धनाचार्यः

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc