भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 624-643

624

स्पर्शाद् एव स्वेदं जनयति न च मे ददाति निद्रातुम् ।
पिर्य इव जघनांशुकम् अपि न निदाघः क्षणम् अपि क्षमते

625

सा भवतो भावनया समय-विरुद्धं मनोभवं बाला ।
नूतन-लतेव सुन्दर दोहद-शक्त्या फलं वहति

626

स्पृशति नखैर् न च विलिखति सिचयं गृह्णाति न च विमोचयति ।
न च मुञ्चति न च मदयति नयति निशां सा न निद्राति

627

स्तन-जघन-द्वयम् अस्या लङ्घित-मध्यः सखे मम कटाक्षः ।
नोज्झति रोधस्वत्यास् तट-द्वयं तीर्थ-काक इव

628

स-व्रीड-स्मित-मन्द-श्वसितं मां मा स्पृशेति शंसन्त्या ।
आकोपम् एत्य वातायनं पिधाय स्थितं प्रियया

629

स-कर-ग्रहं स-रुदितं साक्षेपं स-नख-मुष्टि स-जिगीषम् ।
तस्याः सुरतं सुरतं प्राजापत्य-क्रतुर् अतो ऽन्यः

630

सखि न खलु निमलानां विदधत्य् अभिधानम् अपि मुखे मलिनाः ।
केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः

631

स्वल्पा इति राम-बलैर् ये न्यस्ता नाशये पयो-राशेः ।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहु-मानः

632

सा श्यामा तन्वङ्गी दहता शीतोपचार-तीव्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव

633

सुनिरीक्षित-निश्चल-कर-वल्लभ-धारा-जलोक्षिता न तथा ।
सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा

634

सखि मोघीकृत-मदने पतिव्रते कस् तवादरं कुरुते ।
नाश्रौषीर् भगवान् अपि स काम-विद्धो हरः पूज्यः

635

सा मयि न दास-बुद्धिर् न रतिर् नापि त्रपा न विश्वासः ।
हन्त निरीक्ष्य नवोढां मन्ये वयम् अपिर्या जाताः

636

सुचिरायाते गृहिणी निशि भुक्ता दिन-मुखे विदग्धेयम् ।
धवल-नखाङ्कं निज-वपुर् अकुङ्कुमार्द्रं न दर्शयति

637

स्तन-जघनोरु-प्रणयी गाढं लग्नो निवेशित-स्नेहः ।
प्रिय काल-परिणतिर् इयं विरज्यसे यन् नखाङ्क इव

638

सा विच्छाया निशि निशि सुतनुर् बहु-तुहिन-शीतले तल्पे ।
ज्वलति त्वदीय-विरहाद् ओषधिर् इव हिमवतः पृष्ठे

639

सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकर-बिम्बे तुहिनांशु-रेखेव

640

सुकुमारत्वं कान्तिर् नितान्त-सरअत्वम् आन्तराश् च गुणाः ।
किं नाम नेन्दुलेखे शश-ग्रहेणैव तव कथितम्

641

सौरभ्य-मात्र-मनसाम् आस्तां मलय-द्रुमस्य न विशेषः ।
धर्मार्थिनां तथापि स मृग्यः पूजार्थम् अश्वत्थः

642

संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।
गृह-वृति-विवर-निवेशित-दृशस् तथाश्वासनं यूनः

643

सत्यं स्वल्प-गुणेषु स्तब्धा सदृशे पुनर् भुजङ्गे सा ।
अर्पित-कोटिः प्रणमति सुन्दर हर-चाप-यष्टिर् इव

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc