भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 604-623

604

स-व्रीड-स्मित-सुभगे स्पृष्टास्पृष्टेव किंचिद् अपयान्ती ।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम्

605

सखि सुखयत्य् अवकाश-प्राप्तः प्रेयान् यथा तथा न गृही ।
वाताद् अवारिताद् अपि भवति गवाक्षानिलः शीतः

606

सततम् अरुणित-मुखे सखि निगिरन्ती गरलम् इव गिरां गुम्फम् ।
अवगणितौषधि-मन्त्रा भुजङ्गि रक्तं विरञ्जयसि

607

स्थल-कमल-मुग्ध-वपुषा सातङ्काङ्क-स्थितैक-चरणेन ।
आश्वासयति विसिन्याः कूले विस-कण्ठिका शफरम्

608

स-नख-पदम् अधिक-गौरं नाभी-मूलं निरंशुकं कृत्वा ।
अनया सेवित पवन त्वं किं कृत-मलय-भृगुपातः

609

सर्वाङ्गम् अर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
अलसम् अपि भाग्यवन्तं भजते पुरुषयितेव श्रीः

610

सुदितं तद् एव यत्र स्मारं स्मारं वियोग-दुःखानि ।
आलिङ्गति सा गाढं पुनः पुनर् यामिनी-प्रथमे

611

सान्तर्-भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।
साशङ्क-सेर्ष्य-सभया तथा तथा गेहिनी तस्य

612

सुन्दरि दर्शयति यथा भवद्-विपक्षस्य तत्-सखी कान्तिम् ।
पतति तथा मम दृष्टिस् त्वद्-एक-दासस्य सासूया

613

स्वाधीनैर् अधर-व्रण-नखाङ्क-पत्रावलोप-दिन-शयनैः ।
सुभगा सुभगेत्य् अनया सखि निखिला मुखरिता पल्ली

614

सरित इव यस्य गेहे शुष्यन्ति विशाल-गोत्रजा नार्यः ।
क्षारास्व् एव स तृप्यति जल-निधि-लहरीषु जलद इव

615

सकल-कटकैक-मण्डनि कठिनी-भूताशये शिखर-दन्ति ।
गिरिभुव इव तव मन्ये मनः शिला समभवच् चण्डि

616

सखि दुरवगाह-गहनो विदधानो विप्रियं प्रिय-जनेऽपि ।
खल इव दुर्लक्ष्यस् तव विनत-मुखस्योपरि स्थितः कोपः

617

स्वेद-सचेल-स्नाता सप्त-पदी सप्त मण्डलीर् यान्ती ।
स-मदन-दहन-विकारा मनोहरा व्रीडिता नमति

618

सुरस-प्रवर्तमानः सङ्घाटो ऽयं समान-वृत्तानाम् ।
एत्यैव भिन्न-वृत्तैर् भङ्गुरितः काव्य-सर्ग इव

619

सर्वासाम् एव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनर् आवृत्तौ दुग्धम् इव मधुरम्

620

स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि-स्थापि ।
दुष्टां न बुद्धिम् इव तां गूढ-व्यभिचारिणीं वेत्सि

621

सपरावृति चरन्ती वात्य् एव तृणं मनो ऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि

622

सा बहु-लक्षण-भावा स्त्री-मात्रं वेति कितव तव तुल्यम् ।
कोटिर् वराटिका वा द्यूत-विधेः सर्व एव पणः

623

सा विरह-दहन-दूना मृत्वा मृत्वापि जीवति वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc