आर्यासप्तशती · श्लोक 41-60
अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन
अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।
क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद
अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।
पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन
अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव
अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।
कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण
अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।
पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम्
अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।
भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव
अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।
अप्य् एक-वाससस् तव सर्व-युवभ्यो ऽधिका शोभा
अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।
सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य
अवधीरितो ऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।
अवबोधितो ऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन
अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।
स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती
अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।
सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी
अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति
अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम्
अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।
धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम्
अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।
उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव
अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतो ऽपि ।
प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव
अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।
खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य
अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।
रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः
अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0