आर्यासप्तशती · श्लोक 584-603
शाखोटक-शाखोटज-वैखानस-करट-पूज्य रट सुचिरम् ।
नादर-पदम् इह गणकाः प्रमाण-पुरुषो भवान् एकः
शशि-रेखोपम-कान्तेस् तवान्य-पाणि-ग्रहं प्रयातायाः ।
मदनासि-पुत्रिकाया इवाङ्ग-शोभां कदर्थयति
शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।
बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति
इति विभाव्याख्या-समेता श-कार-व्रज्या ।
ष-कार-व्रज्या
षट्-चरण-कीट-जुष्टं पराग-घुण-पूर्णम् आयुधं त्यक्त्वा ।
त्वां मुष्टिमेय-मध्याम् अधुना शक्तिं स्मरो वहति
इति विभाव्याख्या-समेता ष-कार-व्रज्या ।
स-कार-व्रज्या
सा दिवस-योग्य-कृत्य-व्यपदेशा केवलं गृहिणी ।
द्वितिथेर् दिवसस्य परा तिथिर् इव सेव्या निशि त्वम् असि
स्तन-नूतन-नख-लेखालम्बी तव घर्म-बिन्दु-सन्दोहः ।
आभाति पट्ट-सूत्रे प्रविशन्न् इव मौक्तिक-प्रसरः
सौभाग्य-गर्वम् एका करोतु यूथस्य भूषणं करिणी ।
अत्यायाम् अवतोर् या मदान्धयोर् मध्यम् अधिवसति
स्व-चरण-पीडानुमित-त्वन्-मौलि-रुजा-विनीत-मात्सर्या ।
अपराद्धा सुभग त्वां स्वयम् अहम् अनुनेतुम् आयाता
स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवान् अपि यः स कुलालः परं चक्री
सरले न वेद भवती बहु-भङ्गा बहु-रसा बहु-विवर्ता ।
गतिर् असती-नेत्राणां प्रेम्णां स्रोतस्वतीनां च
सखि मध्याह्न-द्वि-गु;न-द्युमणि-कर-श्रेणि-पीडिता छाया ।
मज्जितुम् इवाल-वाले परितस् तरु-मूलम् आश्रयति
सखि शृणु मम प्रियो ऽयं गेहं येनैव वर्त्मनायातः ।
तन्-नगर-ग्राम-नदीः पृच्छति समम् आगतान् अन्यान्
सायं रविर् अनलम् असौ मदन-शरं स च वियोगिनी-चेतः ।
इदम् अपि तमः-समूहं सो ऽपि नभो निर्भरं विशति
स्मर-समर-समय-पूरित-कम्भु-निभो द्विगुण-पीन-गल-नालः ।
शीर्ण-प्रासादोपरि जिगीषुर् इव कल-रवः क्वणति
स्फुरद्-अधरम् अविरताश्रु ध्वनि-रोधोत्कम्प-कुचम् इदं रुदितम् ।
जानूपनिहित-हस्त-न्यस्त-मुखं दक्षिण-प्रकृतेः
स्वयम् उपनीतैर् अशनैः पुष्णन्ती नीड-निर्वृतं दयितम् ।
सहज-प्रेम-रसज्ञा सुभगा-गर्वं बकी वहतु
स्व-रसेन बध्नतां करम् आदाने कण्टकोत्करैस् तुदताम् ।
पिशुनानां पनसानां कोषाभोगो ऽप्य् अविश्वास्यः
सौभाग्यं दाक्षिण्यान् नेत्य् उपदिष्टं हरेण तरुणीनाम् ।
वामार्धम् एव देव्याः स्व-वपुः-शिल्पे निवेशयता
सुभग स्व-भवन-भित्तौ भवता संमर्द्य पीडिता सुतनुः ।
सा पीडयैव जीवति दधती वैद्येषु विद्वेषम्
सा गुण-मयी स्वभाव-स्वच्छा सुतनुः कर-ग्रहायत्ता ।
भ्रमिता बहु-मन्त्र-विदा भवता काश्मीर-मालेव
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0