भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 523-543

523

वक्षसि विजृम्भमाणे स्तन-भिन्नं त्रुटति कञ्चुकं तस्याः ।
पूर्व-दयितानुरागस् तव हृदि न मनाग् अपि त्रुटति

524

व्यक्तिम् अवेक्ष्य तद् अन्यां तस्याम् एवेति विदितम् अधुना तु ।
हर्म्य-हरि-मुखम् इव त्वाम् उभयोः साधारणं वेद्मि

525

व्यजनस्येव समीपे गतागतैस् ताप-हारिणो भवतः ।
अञ्चलम् इव चञ्चलतां मम सख्याः प्रापितं चेतः

526

वितरन्ती रसम् अन्तर् ममार्द्र-भावं तनोषि तनु-गात्रि ।
अन्तः-सलिला सरिद् इव यन् निवससि बहिर् अदृश्यापि

527

विहित-विविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः

528

व्रीडा-विमुखीं वीत-स्नेहाम् आशङ्क्य काकु-वाङ्-मधुरः ।
प्रेमार्द्र-सापराधां दिशति दृशं वल्लभे बाला

529

वक्षः-प्रणयिनि सान्द्र-श्वासे वाङ्-मात्र-सुभटि घन-घर्मे ।
सुतनु ललाट-निवेशित-ललाटिके तिष्ठ विजितासि

530

विचरति परितः कृष्णे राधायां राग-चपल-नयनायाम् ।
दश-दिग्-वेध-विशुद्धं विशिखं विदधाति विषमेषुः

532

विमुखे चतुर्मुखे श्रितवति चानीश-भावम् ईशेऽपि ।
मग्न-मही-निस्तारे हरिः परं स्तब्ध-रोमाभूत्

533

वापी-कच्छे वासः कण्टक-वृतयः सजागरा भ्रमराः ।
केतक-विटप किम् एतैर् ननु वारय मञ्जरी-गन्धम्

534

विचलसि मुग्धे विधृता यथा तथा विशसि हृदय-मदये मे ।
शक्तिः प्रसून-धनुषः प्रकम्प-लक्ष्यं स्पृशन्तीव

535

विहितआसम-शर-समरो जित-गाङ्गेय-च्छविः कृताटोपः ।
पुरुषायिते विराजति देहस् तव सखि शिखण्डीव

536

वृति-विवर-निर्गतस्य प्रमदा-बिम्बाधरस्य मधु पिबते ।
अवधीरित-पीयूषः स्पृहयति देवाधिराजो ऽपि

537

वासित-मधुनि वधूनाम् अवतंसे मौलि-मण्डने यूनाम् ।
विलसति सा पुरु-कुसुमे मधुपीव वन-प्रसूनेषु

538

व्रीडा-प्रसरः प्रथमं तद् अनु च रस-भाव-पुष्ट-चेष्टेयम् ।
जवनी-विनिर्गमाद् अनु नटीव दयिता मनो हरति

539

वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।
पिशुनेन सो ऽपनीतः सहसा पतता जलेनेव

540

विष्वग्-विकासि-सौरभ-रागान्ध-व्याघ-बाधनीयस्य ।
क्वचिद् अपि कुरङ्ग भवतो नाभीम् आदाय न स्थानम्

541

वट-कुटज-शाल-शाल्मलि-रसाल-बहु-सार-सिन्धु-वाराणाम् ।
अस्ति भिदा मलयाचल-सम्भव-सौरभ्य-साम्येऽपि

542

विनिहित-कपर्द-कोटिं चापल-दोषेण शङ्करं त्यक्त्वा ।
वटम् एकम् अनुसरन्ती जाह्नवि लुठसि प्रयाग-तटे

543

वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।
चरणानाम् इव कूर्मी सङ्कोचम् अपि प्रसारम् अपि

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc