आर्यासप्तशती · श्लोक 499-522
रागे नवे विजृम्भति विरह-क्रम-मन्द-मन्द-मन्दाक्षे ।
सस्मित-सलज्जम् ईक्षितम् इदम् इष्टं सिद्धम् आचष्टे
रोषो ऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणाम् उपलो ऽपि हि सुस्निग्धः क्षणिक-कल्पश् च
रोदनम् एतद् धन्यं सखि किं बहु मृत्युर् अपि ममानर्घः ।
स्वप्नेनेव हि विहितो नयन-मनो-हारिणा तेन
रोषेणैव मया सखि वक्रो ऽपि ग्रन्थिलो ऽपि कठिनो ऽपि ।
ऋजुताम् अनीयतायं सद्यः स्वेदेन वंश इव
रजनीम् इयम् उपनेतुं पितृ-प्रसूः प्रथमम् उपतस्थे ।
रञ्जयति स्वयम् इन्दुं कुनायकं दुष्ट-दूतीव
इति विभाव्याख्या-समेता र-कार-व्रज्या ॥
ल-कार-व्रज्या
लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।
अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति
लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति ।
पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः
लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।
पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि
लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे ।
वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति
लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम्
लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।
भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम्
लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा ।
अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य
लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।
क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः
लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम्
इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥
व-कार-व्रज्या
वर्ण-हृतिर् न ललाटे न लुलितम् अङ्गं न चाधरे दंशः ।
उत्पलम् अहारि वारि च न स्पृष्टम् उपाय-चतुरेण
विविधायुध-व्रणार्बुद-विषमे वक्षः-स्थले प्रियतमस्य ।
श्रीर् अपि वीर-वधूर् अपि गर्वोत्पुलका सुखं स्वपिति
वैमुख्येऽपि विमुक्ताः शरा इवान्याय-योधिनो वितनोः ।
भिन्दन्ति पृष्ठ-पतिताः प्रिय हृदयं मम तव श्वासाः
व्यक्तम् अधुना समेतः खण्डो मदिराक्षि दशन-वसने ते ।
यन् नव-सुधैक-सारे लोभिनि तत् किम् अपि नाद्राक्षम्
वीजयतोर् अन्योन्यं यूनोर् वियुतानि सकल-गात्राणि ।
सन् मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता
व्यारोषं मानिन्यास् तमो दिवः कासरं कलम् अभूमेः ।
बद्धम् अलिं च नलिन्याः प्रभात-सन्ध्यापसारयति
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0