आर्यासप्तशती · श्लोक 544-563
वृति-विवरेण विशन्ती सुभग त्वाम् ईक्षितुं सखी दृष्टिः ।
हरति युव-हृदय-पञ्जर-मध्यस्था मन्मथेषुर् इव
विपणितुला-सामान्ये मा गणयैनं निरूपणे निपुण ।
धर्म-घटो ऽसाव् अधरीकरोति लघुम् उपरि नयति गुरुम्
वासर-गम्यम् अनूरोर् अम्बरम् अवनी च वामनैक-पदम् ।
जलधिर् अपि पोतलङ्घ्यः सतां मनः केन तुलयामः
वितत-तमो-मषिलेखालक्ष्मोत्सङ्ग-स्फुटाः कुरङ्गाक्षि ।
पत्राक्षर-निकरा इव तारा नभसि प्रकाशन्ते
विविधाङ्ग-भङ्गिषु गुरुर् नूतन-शिष्यां मनोभवाचार्यः ।
वेत्र-लतयेव बालां तल्पे नर्तयति रत-रीत्या
विपरीतम् अपि रतं ते स्रोतो नद्या इवानुकूलम् इदम् ।
तट-तरुम् इव मम हृदयं समूलम् अपि वेगतो हरति
वैभव-भाजां दूषणम् अपि भूषण-पक्ष एव निक्षिप्तम् ।
उग्णम् आत्मनाम् अधर्मं द्वेषं च गृणन्ति काणादाः
वक्राः कपट-स्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।
कं वञ्चयन्ति न सखे खलाश् च गणिका-कटाक्षाश् च
विद्युज्-ज्वाला-वलयित-जलधर-पिठरोदराद् विनिर्यान्ति ।
विशदौदन-द्युति-मुषः प्रेयसि पयसा समं करकाः
व्यजनादिभिर् उपचारैः किं मरु-पथिकस्य गृहिणि विहितैर् मे ।
तापस् त्वद्-ऊरु-कदली-द्वय-मध्ये शान्ति-मयम् एति
वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै ।
दुर्वह-नितम्ब-मन्थरम् अपि हरति नितम्बिनी-नृत्यम्
वीक्ष्य सतीनां गणने रेखाम् एकां तया स्व-नामाङ्काम् ।
सन्तु युवानो हसितुं स्वयम् एवापारि नावरितुम्
विन्ध्याचल इव देहस् तव विविधावर्त-नर्मद-नितम्बः ।
स्थगयति गतिं मुनेर् अपि सम्भावित-रवि-रथ-स्तम्भः
वृति-भञ्जन गञ्जन-सह निकामम् उद्दाम दुर्नयाराम ।
परवाटी-शत-लम्पट दुष्ट-वृष स्मरसि गेहम् अपि
वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः ।
तज् जालस्य खलस्य च निजाङ्क-सुप्त-प्रणाशाय
विन्ध्य-महीधर-शिखरे मुदिर-श्रेणी-कृपाण-मयम् अनिलः ।
उद्यद्-विद्युज्-ज्योतिः पथिक-वधायैव शातयति
व्यालम्बमान-वेणी-धुत-धूलि प्रथमम् अश्रुभिर् धौतम् ।
आयातस्य पदं मम गेहिन्या तद् अनु सलिलेन
वक्षः-स्थल-सुप्ते मम मुखम् उपधातुं न मौलिम् आलभसे ।
पीनोत्तुङ्ग-स्तन-भर-दूरी-भूतं रत-श्रान्तौ
वदन-व्यापारान्तर्भावाद् अनुरक्तमानयन्ती त्वम् ।
दूति सती-नाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि
इति विभाव्याख्या-समेता व-कार-व्रज्या ॥
श-कार-व्रज्या
श्रीर् अपि भुजङ्ग-भोगे मोहन-विज्ञेन शीलिता येन ।
सो ऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0