आर्यासप्तशती · श्लोक 469-498
यन् नावधिम् अर्थयते पाथेयार्थं ददाति सर्वस्वम् ।
तेनानयाति-दारुण-शङ्काम् आरोपितं चेतः
यूनाम् ईर्ष्या-वैरं वितन्वता तरुणि चक्र-रुचिरेण ।
तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव
यावज् जीवन-भावी तुल्याशयोयोर् नितान्त-निर्भेदः ।
नदयोर् इवैष युवयोः सङ्गो रसम् अधिकम् आवहतु
यन् निहितां शेखरयसि मालां सा यातु शठ भवन्तम् इति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्व-गुरु-कोपाम्
यौवन-गुप्तिं पत्यौ बन्धुषु मुग्धत्वम् आर्जवं गुरुषु ।
कुर्वाणा हलिक-वधूः प्रशस्यते व्याजतो युवभिः
यो न गुरुभिर् न मित्रैर् न विवेकेनापि नैव रिपु-हसितैः ।
नियमित-पूर्वः सुन्दरि स विनीतत्वं त्वया नीतः
यन्-मूलम् आर्द्रम् उदकैः कुसुमं प्रतिपर्व फल-भरः परितः ।
द्रुम तन् माद्यसि वीची-परिचय-परिणामम् अविचिन्त्य
यस्याङ्के स्मर-सङ्गर-विश्रान्ति-प्राञ्जला सखी स्वपिति ।
स वहतु गुणाभिमानं मदन-धनुर्-वल्लि-चोल इव
यदि दान-गन्ध-मात्राद् वसन्ति सप्त-च्छदेऽपि दन्तिन्यः ।
किम् इति मद-पङ्क-मलिनां करी कपोल-स्थलीं वहति
यद्-अवधि विवृद्ध-मात्रा विकसित-कुसुमोत्करा शण-श्रेणी ।
पीतांशुक-प्रियेयं तदवधि पल्ली-पतेः पुत्री
यमुना-तरङ्ग-तरलं न कुवलयं कुसुम-लावि तव सुलभम् ।
यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः
इति विभाव्याख्या-समेता य-कार-व्रज्या ॥
र--कार-व्रज्या
राज्याभिषेक-सलिल-क्षालित-मौलेः कथासु कृष्णस्य ।
गर्व-भर-मन्थराक्षी पश्यति पद-पङ्कजं राधा
रति-कलह-कुपित-कान्ता-कर-चिकुराकर्ष-मुदित-गृह-नाथम् ।
भवति भवनं तद् अन्यत् प्राग्-वंशः पर्ण-शाला वा
रोगो राजायत इति जनवादं सत्यम् अद्य कलयामि ।
आरोग्य-पूर्वकं त्वयि तल्प-प्रान्तागते सुभग
रुद्ध-स्वरस-प्रसरस्यालिभिर् अग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः
रूपम् इदं कान्तिर् असाव् अयम् उत्कर्षः सुवर्ण-रचनेयम् ।
दुर्गत-मिलिता ललिते भ्रमसि प्रतिमन्दिर-द्वारम्
रचिते निकुञ्ज-पत्रैर् भिक्षुक-पात्रे ददाति सावज्ञम् ।
पर्युषितम् अपि सुतीक्ष्ण-श्वास-कदुष्णं वधूर् अन्नम्
रक्षति न खलु निज-स्थितिम् अलघुः स्थापयति नायकः स यथा ।
तिष्ठति तथैव तद्-गुण-विद्धेयं हार-यष्ठिर् इव
राजसि कृशाङ्गि मङ्गल-कलशी सहकार-पल्लवेनेव ।
तेनैव चुम्बित-मुखी प्रथमाविर्भूत-रागेण
रूप-गुण-हीन-हार्या भवति लघुर् धूलिर् अनिल-चपलेव ।
प्रथयति पृघु-गुण-नेया तरुणी तरणिर् इव गरिमाणम्
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0