भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 449-468

449

मम कुपितायाश् छायां भूमाव् आलिङ्ग्य सखि मिलत्-पुलकः ।
स्नेहमयत्वम् अनुज्झन् करोति किं नैष माम् अरुषम्

450

मुषित इव क्षण-विरहे रिपुर् इव कुसुमेषु-केलि-सङ्ग्रामे ।
दास इव श्रम-समये भजन् नताङ्गीं न तृप्यामि

451

मुञ्चसि किं मानवतीं व्यवसायाद् द्विगुण-मन्यु-वेगेति ।
स्नेह-भवः पयसाग्निः सान्त्वेन च रोष उन्मिषति

452

मलयजम् अपसार्य घनं वीजन-विघ्नं विधाय बाहुभ्याम् ।
स्मर-सन्तापाद् अगणित-निदाघम् आलिङ्गते मिथुनम्

453

महतो ऽपि हि विश्वासान् महाशया दधति नाल्पम् अपि लघवः ।
संवृणुतेऽद्री-नुदधिर् निदाघ-नद्यो न भेकम् अपि

454

मधु-धारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृत-मुख-भङ्गापि रसं ददासि मम सरिद् इवाम्भोधेः

455

मदनाकृष्ट-नुर्ज्या-घातैर् इव गृहिणि पथिक-तरुणानाम् ।
वीणा-तन्त्री-क्वाणैः केषां न विकम्पते चेतः

456

मम भयम् अस्याः कोपो निर्वेदो ऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मित-संवृति-नमित-कन्धरयोः

457

मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
इयम् एव नर्मदा मम वंश-प्रभवानुरूप-रसा

458

मृगमद-लेपनम् एनं नील-निचोलैव निशि निषेव त्वम् ।
कालिन्द्याम् इन्दीवरम् इन्दिन्दिर-सुन्दरीव सखि

459

मम सख्या नयन-पथे मिलितः शक्तो न कश्चिद् अपि चलितुम् ।
पतितो ऽसि पथिक विषमे घट्ट-कुटीयं कुसुम-केतोः

460

महता प्रियेण निर्मितम् अप्रियम् अपि सुभग सह्यतां याति ।
सुत-सम्भवेन यौवन-विनाशनं न खलु खेदाय

461

मान-ग्रह-गुरु-कोपाद् अनु दयितात्य् एव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाञ्चित-शुद्ध-भावेव

462

इति विभाव्याख्या-समेता म-कार-व्रज्या ॥
य-कार-व्रज्या
यूनः कण्टक-विटपानि विआञ्चल-ग्राहिणस् त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वाम् एव जानन्ती

463

युष्मासूपगताः स्मो विबुधा वाङ्-मात्र-पाटवेन वयम् ।
अन्तर्भवति भवत्स्व् अपि नाभक्तस् तन् न विज्ञातम्

464

यत्र न दूती यत्र स्निग्धा न दृशो ऽपि निपुणया निहिताः ।
न गिरो ऽद्यापि व्यक्तीकृतः स भावो ऽनुरागेण

465

या नीयते सपत्न्य् प्रविश्य यावर्जिता भुजङ्गेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये

466

यस्मिन्न् अयशो ऽपि यशो ह्रीर् विघ्नो मान एव दौःशील्यम् ।
लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः

467

यद् वीक्ष्यते खलानां माहात्म्यं क्वापि दैव-योगेन ।
काकानाम् इव शौक्ल्यं तद् अपि हि न चिराद् अनर्थाय

468

यत् खलु खल-मुख-हुत-वह-विनिहितम् अपि शुद्धिम् एव परमेति ।
तद् अनल-शौचम् इवांशुकम् इह लोके दुर्लभं प्रेम

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc