भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 429-448

429

मम रागिणो मनस्विनि करम् अर्पयतो ददासि पृष्ठम् अपि ।
यदि तद् अपि कमल-बन्धोर् इव मन्ये स्वस्य सौभाग्यम्

430

मा स्पृश माम् इति सकुपितम् इव भणितं व्यञ्जिता न च व्रीडा ।
आलिङ्गितया सस्मितमुक्तम् अनाचार किं कुरुषे

431

मूलानि च निचुलानां हृदयानि च कूल-वसति-कुलटानाम् ।
मुदिर-मदिरा-प्रमत्ता गोदावरि किं विदारयसि

432

मलय-द्रुम-साराणाम् इव धीराणां गुण-प्रकर्षो ऽपि ।
जड-समय-निपतितानाम् अनादरायैव न गुणाय

433

मधुमथन-मौलि-माले सखि तुलयसि तुलसि किं मुधा राधाम् ।
यत् तव पदम् अदसीयं सुरभयितुं सौरभोद्भेदः

434

मयि यास्यति कृत्वावधि-दिन-सङ्ख्यं चुम्बनं तथाश्लेषम् ।
प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी

435

मृगमद-निदानम् अटवी कुङ्कुमम् अपि कृषक-वाटिका वहति ।
हट्टविलासिनि भवती परम् एका पौर-सर्वस्वम्

436

मधु-दिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः ।
सखि लोह-कण्टक-निभस् तथा मदन-विशिखो ऽपि

437

मयि चलिते तव मुक्ता दृशः स्वभावात् प्रिये स-पानीयाः ।
सत्यम् अमूल्याः सद्यः प्रयान्ति मम हृदय-हारत्वम्

438

मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः ।
शङ्के स्तन-गुटिका-द्वयम् अर्पितम् एतेन तव हृदये

439

मधुमथन-वदन-विनिहित-वंशी-सुषिरानुसारिणो रागाः ।
हन्त हरन्ति मनो मम नलिका-विशिखाः स्मरस्येव

440

महतोः सुवृत्तयोः सखि हृदय-ग्रह-योग्ययोः समुच्छ्रितयोः ।
सज्जनयोः स्तनयोर् इव निरन्तरं सङ्गतं भवति

441

मम वारितस्य बहुभिर् भूयो भूयः स्वयं च भावयतः ।
जातो दिशीव तस्यां सखे न विनिवर्तते मोहः

442

मग्नो ऽसि नर्मदाया रसे हृतो वीचि-लोचन-क्षेपैः ।
यद्य् उच्यसे तरुवर भ्रष्टो भ्रंशो ऽपि ते श्लाघ्यः

443

मेनाम् उल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
कृत-कर-बन्ध-विलम्बः परिणयने गिरिश-कर-कम्पः

444

मधु-गन्धि घर्म-तिम्यत्-तिलकं स्खलद्-उक्तिं घूर्ण-दरुणाक्षम् ।
तस्याः कदाधरामृतम् आननम् अवधूय पास्यामि

445

मेदिन्यां तव निपतति न पदं बहु-वल्लभेति गर्वेण ।
आश्लिष्य कैर् न तरुणैस् तुरीव वसनैर् विमुक्तासि

446

मूले निसर्ग-मधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव पर-पुरुषा विविधेषु रसेषु विनिधेयाः

447

महति स्नेहे निहितः कुसुमं बहु दत्तम् अर्चितो बहुशः ।
वक्रस् तद् अपि शनैश्चर इव सखि दुष्ट-ग्रहो दयितः

448

मा शबर-तरुणि पीवर-वक्षोरुहयोर् भरेण भज गर्वम् ।
निर्मोकैर् अपि शोभा ययोर् भुजङ्गीभिर् उन्मुक्तैः

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc