आर्यासप्तशती · श्लोक 21-40
अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।
जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति
अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।
नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः
अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव
अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे
अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति
अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।
रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः
अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मान-चौराननः कितवः
अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।
उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः
अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।
श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव
अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।
सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव
अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि
अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि
अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।
त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः
अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।
अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः
अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।
अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे
अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।
पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव
अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।
गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी
अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।
मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः
अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।
कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम्
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0