भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 329-348

329

नृत्य-श्रम-घर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।
मकरन्दोदक-जुष्टं मदन-धनुर्-वल्लिर् इव चोलम्

330

नाहं वदामि सुतनु त्वम् अशीला वा प्रचण्ड-चरिता वा ।
प्रेम-स्वभाव-सुलभं भयम् उदयति मम तु हृदयस्य

331

न निरूपितो ऽसि सख्या नियतं नेत्र-त्रिभाग-मात्रेण ।
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे

332

नख-दशन-मुष्टि-पातैर् अदयैर् आलिङ्गनैश् च सुभगस्य ।
अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः

333

न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरभेयि घण्टा कपिला-पुत्रीति बद्धेयम्

334

निष्कारणापराधं निष्कारण-कलह-रोष-परितोषम् ।
सामान्य-मरण-जीवन-सुख-दुःखं जयति दाम्पत्यम्

335

न प्राप्यसे कराभ्यां हृदयान् नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्तित-कुसुमायुध-विशिख-फलिकेव

336

नाथेति परुषम् उचितं प्रियेति दासेत्य् अनुग्रहो यत्र ।
तद्-दाम्पत्यम् इतो ऽन्यन् नारी रज्जुः पशुः पुरुषः

337

निहितायाम् अस्याम् अपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात् पत्त्राक्षर-राजिर् इव दयिता

338

निधि-निक्षेप-स्थानस्योपरि चिह्नार्थम् इव लता निहिता ।
लोभयति तव तनूदरि जघन-तटाद् उपरि रोमाली

339

निहितार्ध-लोचनायास् त्वं तस्या हरसि हृदय-पर्यन्तम् ।
न सुभग समुचितम् ईदृशम् अङ्गुलि-दाने भुजं गिलसि

340

नीत्वागारं रजनी-जागरम् एकं च सादरं दत्त्वा ।
अचिरेण कैर् न तरुणैर् दुर्गा-पत्त्रीव मुक्तासि

341

नक्षत्रेऽग्नाव् इन्दाव् उदरे कनके मणौ दृशि समुद्रे ।
यत् खलु तेजस् तद् अखिलम् ओजायितम् अब्ज-मित्रस्य

342

न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
बाला त्वद्-विरहापदि जातापभ्रंश-भाषेव

343

न विभूषणे तवास्था वपुर् गुणेनैव जयसि सखि यूनः ।
अवधीरितास्त्र-शस्त्रा कुसुमेषोर् मल्ल-विद्येव

344

नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।
सखि मन्थयति मनो मम दधि-भाण्डं मन्थ-दण्ड इव

345

नाना-वर्णक-रूपं प्रकल्पयन्ती मनोहरं तन्वी ।
चित्रकर-तूलिकेव त्वां सा प्रतिभित्ति भावयति

346

इति विभाव्याख्या-समेता न-कार-व्रज्या ॥
प-कार-व्रज्या
पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी ।
केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि

347

प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।
प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम्

348

प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे ।
बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc