भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 349-368

349

पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।
अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति

350

प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।
आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन

351

प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति ।
त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम्

352

प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।
यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः

353

पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि

354

प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु ।
पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः

355

पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षो ऽयम् ।
विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति

356

प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी ।
प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः

357

प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।
मुख-लग्नयापि यो ऽयं न लज्जते दग्ध-कालिकया

358

पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः ।
वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम्

359

प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।
जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति

360

प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।
स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग

361

प्रिय आयाते दूराद् अभूत इव सङ्गमो ऽभवत् पूर्वः ।
मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ

362

पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् ।
शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति

363

परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।
बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते

364

प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु

365

पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।
जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु

366

प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।
पञ्जर-चकोरिकाणां कणिकाकल्पो ऽपि न विशेषः

367

प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु ।
वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम्

368

पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।
रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc