भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 309-328

309

निज-काय-च्छायायां विश्रम्य निदाघ-विपदम् अपनेतुम् ।
बत विविधास् तनु-भङ्गीर् मुग्ध-करङ्गीयम् आचरति

310

न हसन्ति जरठ इति यद् वल्लव-वनिता नमन्ति नन्दम् अपि ।
सखि स यशोदा-तनयो नित्यं कन्दलित-कन्दर्पः

311

नीता स्वभावम् अर्पित-वपुर् अपि वाम्यं न कामिनी त्यजति ।
हर-देहार्ध-ग्रथिता निदर्शनं पार्वती तत्र

312

नागर-भोगानुमित-स्व-वधू-सौन्दर्य-गर्व-तरलस्य ।
निपतति पदं न भूमौ ज्ञाति-पुरस् तन्तु-वायस्य

313

निपतति चरणे कोणे प्रविश्य निशि यन् निरीक्षते कस् तत् ।
सखि स खलु लोक-पुरतः खलः स्व-गरिमाणम् उद्गिरति

314

न विमोचयितुं शक्यः क्षमां महान् मोचितो यदि कथंचित् ।
मन्दर-गिरिर् इव गरलं निवर्तते ननु समुत्थाप्य

315

नियतैः पदैर् निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
सम्भवद् अन्य-गतिः कः सङ्क्रम-काष्ठं दुरीशं च

316

निज-पद-गति-गुण-रञ्जित-जगतां करिणां च सत्-कवीनां च ।
वहताम् अपि महिमानं शोभायै सज्जना एव

317

नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।
तस्योज्ज्वलो निशि निशि प्रेमा रत्न-प्रदीप इव

318

निहितान् निहितान् उज्झति नियतं मम पार्थिवान् अपि प्रेम ।
भ्रामं भ्रामं तिष्ठति तत्रैव कुलाल-चक्रम् इव

319

निर्भरम् अपि सम्भुक्तं दृष्ट्या प्रातः पिबन् न तृप्यामि ।
जघनम् अनंशुकम् अस्याः कोक इवाशिशिर-कर-बिम्बम्

320

निविड-घटितोरु-युगलां श्वासोत्तब्ध-स्तनार्पित-व्यजनाम् ।
तां स्निग्ध-कुपित-दृष्टिं स्मरामि रत-निःसहां सुतनुम्

321

निर्गुण इति मृत इति च द्वाव् एकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्-गुण-शून्यं निर्जीवं तद् इह शंसन्ति

322

निज-सूक्ष्म-सूत्र-लम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयम् उद्गृहीत-वडिशः कर्कट इव मर्कटः पुरतः

323

नागर गीतिर् इवासौ ग्राम-स्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदर-वास-वशाद् विस्रताम् एति

324

नख-लिखित-स्तनि कुर-बक-मय-पृष्ठे भूमि-लुलित-विरसाङ्गि ।
हृदय-विदारण-निःसृत-कुसुमास्र-शरेव हरसि मनः

325

नीता लघिमानम् इयं तस्यां गरिमाणम् अधिकम् अर्पयसि ।
भार इव विषम-भार्यः सुदुर्वहो भवति गृह-वासः

326

न च दूती न च याच्ञा न चाञ्जलिर् न च कटाक्ष-विक्षेपः ।
सौभाग्य-मानिनां सखि कच-ग्रहः प्रथमम् अभियोगः

327

निशि विषम-कुसुम-विशिख-प्रेरितयोर् मौन-लब्ध-रति-रसयोः ।
मानस् तथैव विलसति दम्पत्योर् अशिथिल-ग्रन्थिः

328

निज-गात्र-निर्विशेष-स्थापितम् अपि सारम् अखिलम् आदाय ।
निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वार-वधूः

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc