आर्यासप्तशती · श्लोक 289-308
दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।
क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु
दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।
व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम्
द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।
कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते
दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।
गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि
दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन
दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।
हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः
दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।
मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति
दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति
दुर्गत-गेहिनि जर्जर-मन्दिर-सुप्तैव वन्दसे चन्द्रम् ।
वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः
दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति ।
दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च
दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।
नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम्
दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते ।
आस्तां कुसुमं वीरः स्मरो ऽधुना चित्र-धनुषापि
दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।
राकेव विष्टि-युक्ता भवतो ऽभिमताय निशि भवतु
दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते ।
निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः
दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च ।
तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम्
इति विभाव्याख्या-समेता द-कार-व्रज्या ॥
ध-कार-व्रज्या
धूमैर् अश्रु निपातय दह शिखया दहन-मलिनयाङ्गारैः ।
जागरयिष्यति दुर्गत-गृहिणी त्वां तद् अपि शिशिर-निशि
धैर्यं निधेहि गच्छतु रजनी सो ऽप्य् अस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षण-धृत-मुक्ता स्मरेषुर् इव
धवल-नख-लक्ष्म दुर्बलम् अकलैत-नेपथ्यम् अलक-पिहिताक्ष्याः ।
द्रक्ष्यामि मद्-अवलोक-द्वि-गुणाश्रु वपुः पुर-द्वारि
धर्मारम्भेऽप्य् असतां पर-हिंसैव प्रयोजिका भवति ।
काकानाम् अभिषेकेऽकारणतां वृष्टिर् अनुभवति
इति विभाव्याख्या-समेता ध-कार-व्रज्या ॥
न-कार-व्रज्या
नीरावतरण-दन्तुरसैकत-सम्भेद-मेदुरैः शिशिरे ।
राजन्ति तूल-राशि-स्थूल-पटैर् इव तटैः सरितः
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0