आर्यासप्तशती · श्लोक 269-288
ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति
तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा
तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे ।
अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय
तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।
किं कुर्मः सो ऽपि सखे स्थितो मुखं मुद्रयित्वैव
त्वाम् अभिलषतो मानिनि मम गरिम-गुणो ऽपि दोषतां यातः ।
पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव
तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु
तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः ।
हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः
इति विभाव्याख्या-समेता त-कार-व्रज्या ॥
द-कार-व्रज्या
दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।
चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम्
देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः
द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।
ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः
दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।
प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः
दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।
स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि
दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।
प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति
दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।
रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम्
दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।
यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः
दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।
आश्लेषो बालानां भवति खलानां च सम्भेदः
द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः
दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।
प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः
दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि
दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।
हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0