आर्यासप्तशती · श्लोक 221-248
इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥
च-कार-व्रज्या
चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।
खेदोचितेऽपि समये संमदम् एवाददे गृहिणी
चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन
चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ
चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।
कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा
चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।
धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः
चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।
जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः
चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।
इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः
चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।
त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः
चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।
आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः
चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।
हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम्
चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।
त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति
चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।
किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम्
इति विभाव्याख्या-समेता च-कार-व्रज्या ॥
छ-कार-व्रज्या
छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः
छाया-मात्रं पश्यन्न् अधोमुखो ऽप्य् उद्गतेन धैर्येण ।
तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव
इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥
ज-कार-व्रज्या
जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः ।
कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता
जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।
तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम्
जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः
इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥
झ-कार-व्रज्या
झङ्कृत-कङ्कण-पाणि-क्षेपैः स्तम्भावलम्बनैर् मौनैः ।
शोभयसि शुष्क-रुदितैर् अपि सुन्दरि मन्दिर-द्वारम्
इति विभाव्याख्या-समेता झ-कार-व्रज्या ॥
ढ-कार-व्रज्या
ढक्काम् आहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनाम् इव मदः पुनः स्व-कुल-नाशाय
इति विभाव्याख्या-समेता ढ-कार-व्रज्या ॥
त-कार-व्रज्या
तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग ।
तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0