भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 201-220

201

गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति

202

गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः ।
बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः

203

गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम्

204

गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा

205

गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।
अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम्

206

गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा ।
निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः

207

गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।
उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि

208

गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम्

209

गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति

210

गुण आकर्षण-योग्यो धनुष इवैको ऽपि लक्ष-लाभाय ।
लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः

211

गायति गीते वंशे वादयति स विपञ्चीषु ।
पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा

212

गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् ।
सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः

213

गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम्

214

गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया ।
नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया

215

ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।
किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य

216

गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि ।
बाला-कपोल-पुलकं विलोक्य निहितो ऽस्मि शिरसि पदा

217

गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।
नयनम् इदं स्फुट-नख-पद-निवेश् अ-कृत-कोप-कुटिल-भ्रु

218

इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥
घ-कार-व्रज्या
घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् ।
आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति

219

घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः

220

घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च ।
प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc