आर्यासप्तशती · श्लोक 249-268
तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः ।
गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम्
त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया
त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया
त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।
घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण
त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् ।
मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम्
त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।
छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम्
तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे ।
विसिनीव माघ-मासे विना हुताशने सा दग्धा
तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।
कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि
तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा
त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत्
तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् ।
मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते
त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।
गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि
तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या ।
विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी
त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।
पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा
तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव
तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः ।
यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः
त्रिपुर-रिपोर् इव गङ्गा मम मानिनि जनित-मदन-दाहस्य ।
जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव
त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः
त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः ।
दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति
ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।
अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0