आर्यासप्तशती · श्लोक 1-20
गोवर्धनाचार्य-विरचिता
आर्या-सप्तशती
॥ श्रीः ॥
ग्रन्थारम्भ-व्रज्या
पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति ।
अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषो ऽपि ॥गस्स्_*1॥
मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।
प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥गस्स्_*2॥
जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः ।
विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥गस्स्_*3॥
जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।
धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥गस्स्_*4॥
जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् ।
गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥गस्स्_*5॥
सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।
गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥गस्स्_*6॥
प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः ।
स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥गस्स्_*7॥
प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।
तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥गस्स्_*8॥
पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति ।
हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥गस्स्_*9॥
श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य ।
जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥गस्स्_*10॥
श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।
दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥गस्स्_*11॥
प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥गस्स्_*12॥
केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।
स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥गस्स्_*13॥
रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः ।
उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥गस्स्_*14॥
आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।
मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥गस्स्_*15॥
स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि ।
येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥गस्स्_*16॥
ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥गस्स्_*17॥
चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति ।
शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥गस्स्_*18॥
उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि ।
जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥गस्स्_*19॥
अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।
स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥गस्स्_*20॥
कण्ठोचितो ऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः ।
यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥गस्स्_*21॥
देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।
जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥गस्स्_*22॥
तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् ।
यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥गस्स्_*23॥
तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति ।
फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥गस्स्_*24॥
स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥गस्स्_*25॥
कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः ।
घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥गस्स्_*26॥
एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।
जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥गस्स्_*27॥
मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् ।
यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥गस्स्_*28॥
याभिर् अनङ्गः साङ्गी-कृतः स्त्रियो ऽस्त्री-कृताश् च ता येन ।
वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥गस्स्_*29॥
विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।
शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥गस्स्_*30॥
व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥गस्स्_*31॥
सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।
रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥गस्स्_*32॥
अतिदीर्घ-जीवि-दोषाद् व्यासेन यशो ऽपहारितं हन्त ।
कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥गस्स्_*33॥
श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥गस्स्_*34॥
साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये ।
शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥गस्स्_*35॥
भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।
एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥गस्स्_*36॥
जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥गस्स्_*37॥
यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् ।
कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥गस्स्_*38॥
सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।
सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥गस्स्_*39॥
काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥गस्स्_*40॥
वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।
रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥गस्स्_*41॥
विगुणो ऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते ।
फूत्कारो ऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥गस्स्_*42॥
स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।
तितौस् तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥गस्स्_*43॥
अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य ।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥गस्स्_*44॥
यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥गस्स्_*45॥
सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन ।
तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥गस्स्_*46॥
अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥गस्स्_*47॥
अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥गस्स्_*48॥
आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः ।
अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥गस्स्_*49॥
बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् ।
कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥गस्स्_*50॥
मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥गस्स्_*51॥
वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता ।
निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥गस्स्_*52॥
आर्या-सप्तशतीयं प्रगल्भ-मनसाम् अनादृता येषाम् ।
दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥गस्स्_*53॥
रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा ।
अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥गस्स्_*54॥
इति ग्रन्थारम्भ-व्रज्या समाप्ता ।
अ-कार-व्रज्या
अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।
दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि
अतिवत्सला सुशीला सेवा-चतुरा मनो ऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे
अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।
बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि
अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।
व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि
अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।
तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः
अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।
मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम्
अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।
न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः
अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।
श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः
अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः
अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।
इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः
अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।
शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक्
असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।
सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति
अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।
इतरेन्धन-जन्मा यो धूमः सो ऽगुरुभवो धूपः
अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे
अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः
अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।
अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति
अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति
अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।
प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः
अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।
लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते
अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।
शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितो ऽस्मि तया
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0