आर्यासप्तशती · श्लोक 181-200
कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च ।
सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम्
क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।
कामो ऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते
को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे
कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते
कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः ।
छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून्
कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् ।
मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः
किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।
अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः
कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी ।
रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः
कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।
को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति
कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति ।
कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः
कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।
तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम्
कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि ।
तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषो ऽयम्
इति विभाव्याख्या-समेता क-कार-व्रज्या ॥
ख-कार-व्रज्या
खल-सख्यं प्राङ् मधुरं वयो ऽनतराले निदाघ-दिनम् अन्ते ।
एकआदि-मध्य-परिणति-रमणीया साधु-जन-मैत्री
इति विभाव्याख्या-समेता ख-कार-व्रज्या ॥
ग-कार-व्रज्या
गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः
गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।
वानकरोपनीतः शैलो मकरालयस्येव
गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति
गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य
गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ ।
मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि
गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।
स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति
ग्रीष्ंअ-मये समयेऽस्मिन् विनिर्मितं कलय केलि-वन-मूले ।
अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम्
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0