आर्यासप्तशती · श्लोक 161-180
किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि ।
स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव
कष्टं साहस-कारिणि तव नयनार्धेन सो ऽध्वनि स्पृष्टः ।
उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते
क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव ।
रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव
कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन
कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप ।
रविर् इव यन्त्रोल्लिखितः कृशो ऽपि लोकस्य हरसि दृशम्
किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।
हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया
केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन ।
दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम्
किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।
इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः
केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् ।
येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम्
कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।
प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम्
कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि ।
सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव
कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।
नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः
कृच्छ्रानुवृत्तयो ऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः
किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।
तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे
कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी ।
योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः
केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।
मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते
को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् ।
अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण
कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः
किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि ।
अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः
कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।
सो ऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम्
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0