भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 141-160

141

ऋषभो ऽत्र गीयत इति श्रुत्वा स्वर-पारगा वयं प्राप्ताः ।
को वेद गोष्ठम् एतद् गो-शान्तौ विहित-बहु-मानम्

142

इति विभाव्याख्या-समेता ऋ-कार-व्रज्या ॥
ए-कार-व्रज्या
एको हरः प्रियाधर-गुण-वेदी दिविषदो ऽपरे मूढाः ।
विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ

143

एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।
अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः

144

एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला ।
विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव

145

एकः स एव जीवति स्वहृदय-शून्यो ऽपि सहृदयो राहुः ।
यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम्

146

एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् ।
पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम्

147

एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।
अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम्

148

एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे ।
हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः

149

एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।
धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः

150

इति विभाव्याख्या-समेता ए-कार-व्रज्या ॥
क-कार-व्रज्या
केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम्

151

काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।
वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः

152

कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः ।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव

153

क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी ।
कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि

154

किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः

155

कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम्

156

कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।
रोधो ऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च

157

कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा ।
बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति

158

कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादो ऽयम्

159

किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति

160

कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः ।
लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc