आर्यासप्तशती · श्लोक 121-140
उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् ।
पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते
उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव
उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे ।
काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः
उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव
उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।
एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति
उदितो ऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः ।
कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव
उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।
अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः
उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः ।
अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी
उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।
मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः
उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः ।
शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम्
उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।
धूमो ऽपि नेह विरम-भ्रमरो ऽयं श्वसितम् अनुसरति
उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव ।
सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः
उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।
शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः
उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः
उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।
अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः
उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः
उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि
उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि
इति विभाव्याख्या-समेता उ-कार-व्रज्या ॥
ऊ-कार-व्रज्या
ऊढामुनातिवाहय पृष्ठे लग्नापि कालम् अचलापि ।
सर्वंसहे कठोर-त्वचः किम् अङ्केन कमठस्य
इति विभाव्याख्या-समेता ऊ-कार-व्रज्या ॥
ऋ-कार-व्रज्या
ऋजुना निधेहि चरणौ परिहर सखि निखिल-नागराचारम् ।
इह डाकिनीति पल्ली-पतिः कटाक्षेऽपि दण्डयति
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0