आर्यभटीय (टीका सहित) · अध्याय 6
ब्रह्मा अस्य इष्टदेवता । इष्टदेवताप्रणामः हि भक्त्या प्रयुक्तः स्वाभिः लाषतेष्टकार्यविघातिनः विघ्नान् विनिहन्ति । अथवा देवासुरमुकुटमणिमयूखमालालङ्कृतचरणत्वात् सर्वासाम् देवतानाम् प्रधानतमः ब्रह्मा, अतः तस्य आदौ नमस्क्रियाम् कृतवान् आचार्यः । अथवा आचार्येण स्वायंभुवसिद्धान्तसंक्षेपवस्तुरचना प्रस्तुता, स्वायंभुवसिद्धान्तस्य च विधाता भगवान् वेधाः, ततः अस्य युज्यते प्रथमम् प्रणामः तम् कर्तुम्
। अक्षदेशान्तरायत्ता ग्रहगतिः, तौ च अक्षदेशान्तरविशेषौ भूवशात् इति तत् अनन्तरम् नमस्कृतवान् भुवम् । शश्यादीन् उपरि उपरि अवस्थितान् तद्गतिनिबन्धनत्वात् शास्त्रस्य इति नमस्कृतवान् । ब्रह्मा च कुः च शशी च बुधः च भृगुः च रविः च कुजः च गुरुः च कोणः च भगणाः च ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणाः । अतः तान् ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणान्, नमस्कृत्य प्रणम्य इति अर्थः । भानि ज्योतींषि
अश्विन्यादीनि, तेषाम् गणः भगणः । यत् अत्र शश्यादीनाम् उपरि उपरि अवस्थाने वक्तव्यम् तत् कालक्रियापादे वक्ष्यामः । आर्यभटः इति स्वसंज्ञाभिधानेन अन्याः स्वायंभुवसिद्धान्तानुसारिण्यः कृतयः सन्ति इति एतत् प्रदर्शयति । तेन बहुत्वात् स्वायांभुवसिद्धान्तानुसारिणीनाम् कृतीनाम् केन इयम् कृतिः कृता इति न ज्ञायते । अतः स्वसंज्ञाभिधानम् । यथा "कौटिल्येन कृतम् शास्त्रम्" इति [अर्थशास्त्रम्, 1.1.19] । "तु"-शब्दः पादपूरणे । ["इह"-शब्दः] अस्य पुरम्
प्रदर्शयति । निगदति ब्रवीति । कुसुमपुरे अभ्यर्चितम् ज्ञानम् । कुसुमपुरम् पाटलिपुत्रम्, तत्र अभ्यर्चितम् ज्ञानम् निगदति । एवम् अनुश्रूयते ã अयम् किल स्वायंभुवसिद्धान्तः कुसुमपुरनिवासिभिः कृतिभिः पूजितः, सत्सु अपि पौलिश-रोमक-वासिष्ठ-सौर्येषु । तेन आह ã "कुसुमपुरे अभ्यर्चितम् ज्ञानम्" इति
[ सङ्ख्यास्थाननिरूपणम् ]
सङ्ख्यास्थाननिरूपणार्थम् आह ã
एकम् च दश च शतम् च
सहस्रम् तु अयुतनियुते तथा प्रयुतम् ।
कोट्यर्बुदम् च वृन्दम्
स्थानात् स्थानम् दशगुणम् स्यात्
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0